________________
सप्तमः सर्गः ।
त्रिषष्टिशलाकापुरुषचरिते ॥१९१॥
दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् ।
अथाक्रीडज्जलक्रीडादिभिश्वेलणया सह । श्रेणिकः प्रेमसूत्रेण मिथः स्यूतमना इव ॥१॥ श्रेणिकश्चेलणादेव्या रहसि प्रतिवासरम् । स्वौ करौ कंकतीकृत्य केशपाशममार्जयत् ॥२॥ स्वहस्तग्रथितैः सद्योऽनवद्यैः पुष्पदामभिः । तस्या बबन्ध धम्मिल्लं वालबन्ध इव स्वयम् ।।३।। स्वयं घृष्टमृगमदद्रव्यैस्तस्याः कपोलयोः । लिलेख चित्रकृदिव विचित्राः पत्रवल्लरीः ।। ४ ।। आसने शयने याने भोजनेऽन्यत्र वा नृपः । तत्पावं नात्यजज्जातु सौविदल्ल इव स्वयम् ॥ ५ ॥ एकदा च प्रववृते शिशिरर्तुर्भयंकरः । हिमवैवधिकोटीच्यपवनो वनदाहकः ।। ६ ।। सन्निधिस्थहसन्तीकाः कश्मीरजविलेपनाः । श्रीमन्तो गर्भगेहस्थाः कालातिक्रमणं व्यधुः ।। ७ ।। गजदन्तीकृतकरा वेपमाना भयादिव । रोरार्भका गृहद्वारे दन्तवीणामवादयन् ।। ८ ।। पाणिपञ स्वभावोष्णप्रियावक्षसिजान्निशि । सालाबुवीणादण्डाभं युवानो नापसारयन् ।।९।। टि.-* हसन्ती-सगडी इति गुर्जर भाषायाम् ।
एकस्तंभप्रासादनिर्माणम् ।
॥१९१॥