________________
त्रिषष्टिशलाकापुरुषचरिते ॥१९२॥
दशमं पर्व सप्तमः सर्गः श्रीमहावीरजिनचरितम् ।
तदा च समवासार्षीत्तत्र श्रीज्ञातनन्दनः । सर्वातिशयसंपन्नः सेव्यमानः सुरासुरैः ।। १०॥ देव्या चेल्लणया सार्धमपराहेऽन्यदा नृपः । वीरं समवसरणस्थितं वन्दितुमभ्यगात् ।। ११ ॥ वन्दित्वा श्रीमदर्हन्तं वलितौ तौ तु दम्पती । जलोपान्ते ददृशतुः श्रमणं प्रतिमास्थितम् ॥१२ ।। निरुत्तरीयं तं शीतपरीषहसहं मुनिम् । तौ दम्पती ववन्दाते सपधुत्तीर्य वाहनात् ।। १३ ।। तं क्षमाश्रमणं भक्त्या सह पल्या महीपतिः । वन्दित्वा स्वं ययौ हयं पुण्यवार्ताः प्रपंचयन् ।। १४ ।। निर्दग्धागरुकर्पूरधूपधूमान्धकारिते । वासागारे ययौ राजा कृत्वा सायोचितां क्रियाम् ।। १५ ।। देव्या चेलणया गंडोपधानीकृतदोलतः । तद्वक्षसि न्यस्तकरः सुष्वाप श्रेणिको निशि ।। १६ ।। वामनीकृतवक्षोज गाढमालिंगितस्तया । राजा निद्रामुपेयाय राज्ञी निद्रायते च सा ।। १७ ॥ निद्राभरे चेल्लणायाः प्रच्छदात् पाणिपल्लवः । बहिर्बभूव निद्रा हि परिरंभविघट्टनी ।। १८ ॥ शीतेन दुःसहेनालिकंटकेनेव तत्करः । स्पृष्टश्च तद्वेदनया प्राबुध्यत च चेलणा ।। १९ ॥ शीतार्ता कृतसीत्कारा सा पाणिकमलं निजम् । प्रच्छदान्तनुपहदि निजं मन इव न्यधात् ।। २० ।। तदा निरुत्तरीयं तं महर्षि प्रतिमास्थितम् । स्मृत्वोवाचेदृशे शीते स कथं हा भविष्यति ।। २१ ।। साऽऽससाद पुनर्निद्रां तथैव सरलाशया । दासीव वश्या प्रायेण निद्रा ह्यक्षद्रचेतसाम् ।।२२ ।।
एकस्तंभप्रासाद
निर्माणम् ।
॥१९२॥