SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ दशमं पर्व | षष्ठमः त्रिषष्टिशलाकापुरुषचरिते ॥१९॥ सर्गः & भोगान् सह तयाऽमुंक्त सोऽन्वहं च जनान्दश । प्रबोध्य भव्यान् दीक्षार्थ प्रैषीदुपजिनेश्वरम् ।। ४३२ ॥ क्षीणेऽन्यदा भोगफले तस्य बोधयतः सतः । नवाबुधज्जनाष्टक्कजातीयो दशमो न तु ॥४३३ ॥ तस्मिन्नबुध्यमाने सा वेश्या रसवती कृताम् । आचख्यौ नन्दिषेणाय समयज्ञा मुहुर्मुहुः ॥ ४३४ ॥ & सोऽपूर्णाभिग्रहो भोक्तुं नोत्तस्थौ किं तु सादरम् । तं टक्कंबोधयन्नस्थाद् गीर्भिर्विविधभंगिभिः ॥ ४३५ ॥ तदा चोवाब तं वेश्या प्राक्सिद्धान्नं विरस्यभूत् । भूयो निष्पन्नमस्त्यन्नं किं विलम्बयसि प्रभो! ॥४३६ ॥ नन्दिषेणोऽप्यवोचत्तां बोधितो दशमो न हि । अहमेवाद्य दशमः प्रव्रजिष्यामि तत्पुनः ।। ४३७ ।। इत्युक्त्वा तां नन्दिषेणो भुक्तं भोग्यफलं विदन् । निर्गत्य स्वामिनः पार्श्वे प्रव्रज्यां पुनराददे ॥ ४३८ ॥ आलोच्य तद् दुश्चरितं महात्मा । समं जिनेन्द्रेण स नन्दिषेणः ।। कुर्वन्विहारं निशितं व्रतं च । प्रपालयन्देवभुवं जगाम ।। ४३९ ।। श्रीमहावीरजिनचरितम् । नन्दिषेणचरित्रम् । ॥१९॥ इत्याचार्यश्रीहेमचन्द्रसूरिविरचिते त्रिपष्टिशलाकापुरुषचरिते ) महाकाव्ये दशमपर्वणि श्रेणिकसम्यक्त्वलाभमेघकुमारनन्दिषेणप्रव्रज्यावर्णनो नाम षष्ठः सर्गः ।
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy