________________
त्रिषष्टिशलाकापुरुषचरिते ॥१८९॥
दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् ।
बन्धच्छेदं चकारास्य देवता व्रतवारणी । स्वमानानस्य शस्त्रेण शस्त्रं कुण्ठीचकार च ॥ ४१९ ।। विषं मुमूर्षोरदतस्तस्यावीयं चकार सा । वह्नौ च विशतो वह्निमहायाऽकृत शीतलम् ।। ४२० ॥ आत्मानं सोऽथ शैलाग्रादपातयदथान्तरे । तं धृत्वा देवतोवाच न किं स्मरसि मद्वचः ? ॥४२१ ॥ नालं भोग्यफलं कर्माऽभुक्त्वा क्षेप्तुं जिना अपि । तत्प्रतीपं मुधैव त्वमेवमुत्तिष्ठसेऽन्वहम् ।। ४२२ ॥ इत्युक्तः स तयैकाकिविहारपरिकर्मभृत् । भिक्षार्थं निर्जगामैकश्चिकीर्षुः षष्ठपारणम् ।। ४२३ ॥ अथाऽनाभोगदोषेण वेश्यावेश्म विवेश सः । धर्मलाभ इति वाचमुवाच च महामुनिः ।। ४२४ ॥ न नोऽर्थो धर्मलाभेन द्रम्मलाभोऽस्तु केवलम् । इति वेश्या सोपहासविकारा प्रत्युवाच तम् ।। ४२५ ॥ असौ वराकी हसति किं मामिति विचिन्त्य सः । कृष्ट्वा नीव्रतृणं लब्ध्या रत्नराशिमपातयत् ।। ४२६ ॥ द्रम्मलाभोऽयमित्युक्त्वा स तस्मान्निर्ययौ गृहात् । ससंभ्रमा साऽपि वेश्याऽनुधाव्येति तमभ्यधात् ।।४२७ ॥ तपो दुष्करमुज्झेदं भोगान् भुक्ष्व मया सह । त्यक्ष्यामि सर्वथा प्राणान् प्राणनाथाऽहमन्यथा ।। ४२८ ॥ भूयो भूयस्तयेत्युक्तो भोगान् दुःखान् विदन्नपि । भोग्यकर्मवशात्तस्याः प्रत्यपादि वचोऽथ सः ।। ४२९ ॥ दशाधिकान् वाऽनुदिनं बोधयिष्यामि नो यदि । तदाऽऽदास्ये पुनर्दीक्षां प्रतिज्ञामिति चाकृत ॥ ४३०॥ त्यक्तर्षिलिंगः सोऽवात्सीत्तद्गृहे चिन्तयन् सदा । दीक्षानिषेधिकां वाचं देवताया जिनस्य च ॥ ४३१ ।।
नन्दिषेणचरित्रम् ।
||१८९॥
१ मेऽर्थो । २ कारं। ३ ती ।