SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ||१८८॥ दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् । इति स्वामिगिरा मेघकुमारोऽभूदु व्रते स्थिरः । चक्रे मिथ्यादुष्कृतं च तेपे च विविधं तपः ।। ४०६ ।। पालयित्वा व्रतं सम्यग्मृत्वाऽभूद्धिजये सुरः । ततश्व्युत्वा विदेहेषूत्पद्य पोक्षं स यास्यति ।। ४०७ ।। स्वामिदेशनयाऽन्येधुर्बुद्धो व्रतजिघृक्षया । आपप्रच्छे नन्दिषणः कथंचिच्छ्रेणिकं नृपम् ॥ ४०८ ॥ स पित्राऽनुमतोऽचालीद् व्रतादानाय वेश्मतः । ऊचे देवतया चैवमन्तरीक्षतलस्थया ।। ४०९ ॥ किमुत्सुकायसे वत्स ! प्रव्रज्याग्रहणं प्रति ? । चारित्रावारकं भोगफलं कर्मास्ति यत्तव ॥ ४१० ॥ किंचित्कालं प्रतीक्षस्व गृहे तत्कर्मणः क्षये । प्रव्रज्यां प्रतिपद्येथा नाकाले फलति क्रिया ॥ ४११ ॥ चारित्रावारकं कर्म साधुसंगजुषो मम । करिष्यति किमित्युक्त्वा स ययौ स्वामिनोऽन्तिके ॥४१२ ॥ तथा निषिद्धो भाऽपि रभसेन भृशायितः । प्रत्यपादि परिव्रज्यां तत्पादकमलान्तिके ॥ ४१३ ।। षष्ठाष्टमप्रभृतीनि तप्यमानस्तपांसि सः । व्यहार्षीत्प्रभुणा सार्धं ग्रामाकरपुरादिषु ।। ४१४ ।। स सूत्रमथ सूत्रार्थं नित्यमेव व्यभावयत् । निषण्णो गुरुपादान्ते सहमानः परीषहान् ।। ४१५ ॥ भोग्यकर्मोदयाद्भोगेच्छां भवन्ती बलादपि । रो« तपोभिः स्ववपुः क्रशयामास सोऽधिकम् ।। ४१६ ।। स इन्द्रियविकाराणां निकारायानुवासरम् । चकाराऽऽतापनां घोरां श्मशानादिषु भूमिषु ।। ४१७ ॥ बलादपि विकारेषु भवत्स्विन्द्रियरोषणः । स्वमुद्बद्धं समारेभे प्रव्रज्याभंगकातरः ॥ ४१८ ॥ १°येश्वरः । २ °नः । मेघकुमारचरित्रम् । ॥१८८॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy