________________
त्रिषष्टिशलाकापुरुषचरिते ॥१८७॥
दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् ।
SARASHRSHASHASASARASHBHASHASTRA
इतो भवे तृतीये त्वं हस्ती वैताढ्यभुव्यभूः । मेरुप्रभाख्यो दावार्तः पयः पातुं सरस्यगाः ॥३९३ ॥ तत्पंकमग्नो निःस्थामा प्रतीभेन हतस्ततः । सप्ताहान्ते मृतो विन्ध्ये गजोऽभूराख्यया तया ॥३९४ ।। दृष्ट्वा दवानलं जाति स्मृत्वोन्मूल्य दुमादिकम् । नद्यां स्वयूथरक्षार्थमकार्षीः स्थण्डिलत्रयम् ।।३९५ ।। अन्येधुर्खलिते दावे धावंस्त्वं स्थण्डिलान्यभि । तत्र द्वे स्थण्डिले पूर्णे पूर्वायातैमूंगादिभिः ॥३९६ ॥ ते व्यतीत्य तृतीयेऽयाः स्थण्डिले तत्र च स्थितः । गात्रकण्डूयनकृते चरणं समुदक्षिपः ॥३९७ ॥ अन्योऽन्यसत्त्वसंमर्दपर्यस्तस्तावकस्य तु । समुत्क्षिप्तस्य तस्यांप्रेरधस्ताच्छशकोऽपतत् ।। ३९८ ॥ तथास्थं शशकं दृष्ट्वा करुणापूर्णमानसः । उत्क्षिप्तपाद एवास्थास्त्रिपदीभृन्मदादिव ।। ३९९ ।। सार्धाद् व्यहाद्दवे शान्ते जीवा जग्मुः शशादयः । त्वमपि क्षुत्तृषाऽऽक्रान्तः पानीयाय प्रधावितः ।। ४०० ।। चिरोद्धरणखिन्नैकांघ्रित्वाच्च न्यपतः क्षितौ । क्षुत्तृष्णाक्लेशविवशस्त्र्यहान्मृत्युं त्वमासदः ।। ४०१ ॥ शशानुकंपापुण्येनाधुना राजसुतोऽभवः । लब्धं कथंचिन्मानुष्यमिदं नयसि किं मुधा ? ॥ ४०२ ॥ अप्येकं शशकं त्रातुं कष्टमस्थास्तथा तदा । साध्वंघ्रिघट्टनात्कष्टात् प्रणष्येऽस्यधुना कथम् ? ॥ ४०३ ।। एकजीवाभयदानफलमीदृक्षमासदः । सर्वजीवाभयदानं प्रतिपन्नोऽसि साधु तत् ।। ४०४ ।। पालय प्रतिपन्नं स्वं भवाम्भोधिं समुत्तर । मानुष्यं दुर्लभ हीदं तत्समुत्तारणक्षमम् ॥ ४०५ ॥
मेघकुमार
चरित्रम् ।
| 11१८७॥