________________
दशमं पर्व षष्ठमः
त्रिषष्टिशलाकापुरुषचरिते ।।१८६॥
सर्गः
श्रीमहावीरजिन
चरितम् ।
अनन्तदुःखसंभारात्संसाराच्चकितोऽस्म्यहम् । संसारोत्तारकश्चाईन् स्वयमेवात्र तिष्ठति ॥३८० ।। तन्मामद्याऽनुमन्येथा प्रव्रजामि यथाऽधुना । संसारभीरुशरणश्रीवीरचरणान्तिके ।। ३८१ ॥ तावप्येवं बभाषाते व्रतं नेषत्करं खलु । कुमार ! सुकुमारस्त्वं कथमेतच्चरिष्यसि ।। ३८२ ॥ मेघोऽप्यूचे भवाभीतः सुकुमारोऽप्यहं व्रतम् । करिष्ये दुष्करमपि तदिदानी प्रसीदतम् ।।३८३ ।। पित्रोरप्यंकतो मृत्युराच्छिनत्ति सुतादिकम् । स्वामिपादानुसरणात्तन्मृत्युं छलयाम्यहम् ।। ३८४ ।। अथ तं श्रेणिकोऽवोचद्भवोद्विग्नोऽसि यद्यपि । तथाप्यादत्स्व मे राज्य निर्वापय दृशौ मम ॥३८५ ।। एवमस्त्वित्युक्तवन्तं मेघं राज्ये न्यधान्नृपः । भूयस्ते किं करोमीति हर्षावेशादुवाच च ।। ३८६ ॥ मेघोऽभ्यधात्तर्हि तातानीयतां कुत्रिकापणात् । रजोहरणपात्रादि मह्यं दीक्षा जिघृक्षवे ॥ ३८७ ।। राजापि स्ववचोबद्धस्तच्चक्रे विमना अपि । मेघोऽपि स्वामिपादान्ते गत्वा दीक्षामुपाददे ।।३८८ ।। नक्तं मेघकुमारोऽथानुज्येष्ठं न्यस्तसंस्तरे । प्रसुप्तो गच्छदागच्छन्मुनिपादैर्व्यघट्यत ।। ३८९ ॥ सोऽथ दध्यौ निर्विभवं पादैा घट्टयन्त्यमी । सर्वत्र विभवाः पूज्याः प्रातस्त्यक्ष्यामि तद् व्रतम् ।।३९० ।। एवं विचिन्तयन् रात्रिं कथंचन निनाय सः । त्यक्तुकामो व्रतं प्रातर्जगाम स्वामिसन्निधौ ।।३९१ ।। तद्भावं केवलाज्ज्ञात्वा सर्वज्ञोऽभिदधेऽथ तम् । भग्नः संयमभारात् किं स्मरसि प्राग्भवान्न किम् ? ॥३९२ ।।
मेघकुमारचरित्रम् ।
| ||१८६॥
१ च चि।