________________
त्रिषष्टिशलाकापुरुषचरिते ॥१८३॥
दशमं पर्व षष्ठमः खर्गः श्रीमहावीरजिनचरितम् ।
स्वयं यूथपतिर्जज्ञे चिन्तयामास चेतसि । अमुस्मिन्नाश्रमे मात्रा छद्मना ह्यस्मि रक्षितः ।। ३४२ ॥ रक्षितेन मयाऽकारि यत्पितुस्तन्ममापि हि । मा कार्षीदाश्रमेऽमुष्मितत्रानोऽपरो गजः ॥ ३४३ ॥ इति संचिन्त्य निःशेषं भक्त्वा तं तापसाश्रमम् । अकृताऽलक्ष्यसंस्थानं स नद्योघ इव स्थलम् ।। ३४४ ।। दास्यते नाश्रमे सौख्यं दुरात्मेति तपस्विनः । तं गजं श्रेणिकायाऽऽख्यन् राजाहं सर्वलक्षणैः ।। ३४५ ।। श्रेणिकोऽपि द्रुतं गत्वा तं बद्ध्वा करिकुञ्जरम् । समानयत् कौतुकिनः सेनांगेषु हि भूभुजः ।। ३४६ ।। प्रसह्यासह्यस्थामाऽपि स्तंभेऽबध्यत स द्विपः । किमसाध्यं मनुष्याणामभेद्यमिव पाथसाम् ।। ३४७ ॥ निस्पन्दकरलांगूलकर्णतालः क्रुधा च सः । तस्थावालिखित इव त्रिपदीवर्जितोऽपि सन् ॥ ३४८ ॥ दिष्ट्याऽभूदाश्रमक्षेममिति ते प्रीतचेतसः । तापसा एत्य तं नागमालानितमतर्जयन् ।। ३४९ ।। लालितः पालितोऽस्माभिः पोषितो वर्धितोऽसि च । स्वस्थानघातको रे त्वमाश्रयाश इवाभवः ।।३५० ॥ अस्मत्कवलदुर्मत्तेनाऽऽश्रमोऽभञ्जि यत्त्वया । तत्कर्मणः फलमिदं प्राप्तोऽस्यालानसौहृदम् ।। ३५१ ।। गजोऽपि चिन्तयामास नूनमेभिस्तपस्विभिः । उपायरचनां कृत्वा प्रापितोऽहमिमां दशाम् ।। ३५२ ।। अभांक्षीन्मक्षु स क्रुद्धः स्तंभं कदलीकाण्डवत् । अत्रोटयच्च त्रटिति बन्धनं बिसतन्तुवत् ।। ३५३ ।।
सेचनकवृत्तान्तः ।
||१८३॥
१°दलि।