________________
त्रिषष्टिशलाका
पुरुषचरित ॥१८२ ।।
साऽन्यथा दूरगे तस्मिन् यूथनाथे मतंगजा । तृणपूलं मूर्ध्नि कृत्वा प्रययौ तापसाश्रमम् ॥ ३२९ ।। पादेषु निपतन्ती सा मस्तके न्यस्तपूलका । अज्ञायि तापसैरेषा वराकी शरणार्थिनी ।। ३३० ।। विश्वस्ता भव वत्से ! त्वमिति तैरुदिते सति । तत्राश्रमे सुखं साऽस्थात् पितृधाम्नीव कन्यका ॥ ३३१ ॥ अन्यदा जातपुत्रा सा पुत्रं तत्राश्रमेऽमुचत् । स्वयं त्वरण्ये यूथान्तर्विचचार तथैव हि ॥ ३३२ ॥ सा स्तन्यं कलभायादादागत्यागत्य चान्तरा । शनैश्चाश्रमशाखीव ववृधे कलभोऽपि सः ।। ३३३ ॥ पक्वनीवारकवलैः शल्लकीकवलैरपि । प्रेम्णा निजं पोतमिव तापसास्तमपोषयन् ।। ३३४ ॥ अंके पर्यस्तिकां मूर्ध्नि जटामुकुटमुत्कटम् । स करेण व्यरचयत् पार्श्वे क्रीडंस्तपस्विनाम् ।। ३३५ ।। कलशैः सिषिचुर्वृक्षांस्तापसास्तान्निरीक्ष्य च । सिषेच सोऽपि पयसाऽऽपूर्यापूर्य निजं करम् ।। ३३६ ॥ एवं चाश्रमजान् वृक्षान् सिञ्चतः प्रतिवासरम् । चक्रुः सेचनक इति नाम तस्य तपस्विनः ।। ३३७ ।। करसक्तोन्नतदन्तो मधुपिंगललोचनः । भूमिस्पृक्पुष्करकरः पूर्वासनसमुन्नतः ॥ ३३८ ॥ उच्चैःकुंभो लघुग्रीवः क्रमावनतवेणुकः । शुंडेषदूनलांगूलो विंशत्या शोभितो नखैः ।। ३३९ ।। 'अपराग्देशयोर्नीचैरुच्चकैर्गात्रदेशयोः । स सर्वलक्षणैर्व्यक्तः क्रमान्मदमुखोऽभवत् ।। ३४० ।। । त्रिभिर्विशेषकम् ॥ तेनान्यदा पयः पातुं नदीतीरे प्रसर्पता । स पिता यूथपो दृष्टः कृत्वा युद्धममार्यत ॥। ३४१ ।।
१ अपरादे । २ र्युक्तः ।
অ
दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् ।
सेचनकवृत्तान्तः ।
।।१८२ ।।