________________
दशमं पर्व
त्रिषष्टिशलाका
पुरुषचरिते
॥१८१॥
सर्गः श्रीमहावीरजिनचरितम् ।
श्रेणिकादथ धारिण्या सिन्धुरस्वप्नसूचितः । गर्भोऽभूज्जनयन्मेघवृष्टौ भ्रमणदोहदम् ॥३१५ ।। राजाऽऽदेशात्सोऽभयेनापूर्यताऽऽराध्य देवताम् । ततो मेघकुमार इत्याख्ययाऽसूत सा सुतम् ।।३१६ ॥ इतश्चैकः पुरा विप्रः प्रारेमे यष्टुमध्वरम् । तत्र दासं न्ययुक्तै दासोऽप्येवं तमब्रवीत् ॥ ३१७ ।। ददासि यदि मे शेषं तदा स्थास्यामि नान्यथा । विप्रोऽपि तत्प्रपेदेऽथ दासोऽस्थाद्यज्ञवाटके ॥३१८ ॥ शेषं लब्धं स दासोऽपि साधुभ्यः प्रददौ सदा । तत्प्रभावेण देवायुर्बद्ध्वा मृत्वा दिवं ययौ ।।३१९ ।। दासजीवो दिवश्च्युत्वा श्रेणिकस्य सुतोऽभवत् । नन्दिषणः स विप्रस्तु बभ्रामानेकयोनिषु ।।३२० ॥ इतश्चैकस्मिन्नरण्ये हस्तियूथे महीयसि । एकोऽभूधूथपः स्थाम्ना दिग्वारणकुमारवत् ।। ३२१ ॥ मैष भूद्यौवनेऽमुष्य वशायूथस्य कामुकः । इति बुद्ध्या स कलभं जातं जातममारयत् ।। ३२२ ।। तथगाया एकस्याः करिण्या उदरेऽन्यदा । स विप्रजीवोऽवातारीद् गुर्विणी साऽप्यचिन्तयत् ।। ३२३ ।। पापेनानेन मे पुत्रा बहवोऽपि विनाशिताः । पुत्रं केनाप्युपायेन रक्षिष्याम्यधुना पुनः ॥ ३२४ ।। इति निश्चित्य सा वातभग्नपादेव हस्तिनी । बभूव मायया कुण्टा मन्दं मन्दं चचार च ॥३२५ ॥ माऽन्ययूथपतेर्भोग्या भवत्वेषेति तां वशाम् । स्तोकं स्तोकं व्रजन् यूथनाथस्तां प्रत्यपालयत् ।। ३२६ ।। साऽतीव मन्दगा भूत्वा हस्तिनी तस्य हस्तिनः । अर्धयामेन यामेनामिलदह्ना व्यहेन वा ।। ३२७ ।। अशक्तैव वराकीयं मिलत्येव चिरादपि । इति हस्ती विशश्वास मायिभिः को न वञ्च्यते ॥३२८ ॥
सेचनकवृत्तान्तः।
||१८१॥