________________
त्रिषष्टिशलाका
पुरुषचरिते
119 20 11
चेल्लणा स्माह ते नाथ ! पुत्ररुपेण वैर्यसौ । यस्मिन् गर्भस्थितेऽप्यासीद्दोहदो नरकावहः ।। ३०२ ॥ जातोऽप्यत्याजि तेनायं कुलजानां हि योषिताम् । पत्युः क्षेमकांक्षिणीनां किं पुत्रेणापरेण वा ।। ३०३ ॥ श्रेणिकोऽथान्वशाद्राज्ञीं ज्येष्ठं त्यक्ष्यसि चेत्सुतम् । तदा तवान्ये पुत्राः स्युर्न स्थिरा बुबुदा इव ॥ ३०४ ॥ एवं पत्युर्निर्देशेनानिच्छन्त्यपि हि चेल्लणा । स्तन्यदानादहिमिव तं बालकमपालयत् ।। ३०५ ।। कान्त्या चन्द्र इवाऽशोकवनिकायामदर्श्यसौ । अशोकचन्द्र इत्याख्यामिति तस्याऽकरोन्नृपः ।। ३०६ ॥ तदा वनान्तस्त्यक्तस्यांगुलिस्तस्य कनिष्ठिका । अकाणि कुक्कुटीपिच्छेनाशोकदलकोमला ।। ३०७ ॥ तदर्त्या रुदतस्तस्यांगुलीं पूतिमतीमपि । स्नेहान्मुखेऽक्षिपद्राजा स व्यरंसीच्च रोदनात् ॥ ३०८ ॥ रुढव्रणाऽपि सा तस्य कूणिताभवदंगुलिः । ततः सपांशुरमणैः सोऽभ्यधीयत कूणिकः ।। ३०९ ।। क्रमेण चेल्लणादेव्या हृदयाम्भोजभास्करौ । सुतौ हल्लविहलाख्यावभूतामपरावपि ।। ३१० ।। ते त्रयश्चेलणापुत्रा नित्यं राज्ञोऽनुचरतुः । प्रभुत्वमंत्रोत्साहानां प्रत्यक्षा इव मूर्तयः ।। ३११ ॥ पितृद्विषे कूणिकायाम्बा प्रैषीद्गुडमोदकान् । मत्स्यण्डीमोदकान् हल्लविहल्लाभ्यां पुनः सदा ।। ३१२ । श्रेणिकः कारयत्येवमिति प्राक्कर्मदूषितः । कूणिको विमृशन्नित्यं प्रपेदे मध्यमं वयः ।। ३१३ ॥ श्रेणिकोऽपि स्नेहलात्मा महेन महताऽन्यदा । पद्मावतीं राजपुत्रीं कूणिकेनोदवाहयत् ॥ ३१४ ॥
१० नुगा बभुः ।
दशमं पर्व
षष्ठमः
सर्गः श्रीमहावीरजिनचरितम् ।
कुणिकस्य
जन्म ।
1192011