________________
दशमं पर्व
त्रिषष्टिशलाकापुरुषचरिते ॥१७९॥
षष्ठमः सर्गः श्रीमहावीरजिनचरितम् ।
अभयोऽपि श्रेणिकस्योदरे शशकजंगलम् । तच्चर्माच्छादितं चक्रेऽथोत्तानं तमशाययत् ।। २८९ ।। श्रेणिकस्यानुज्ञया च ततो रहसि चेल्लणा । जघास मांसमव्यग्रा रक्षसामिव देवता ।। २९० ।। तस्यां च मांसं खादन्त्यामेवमेव महीपतिः । अधीती नटविद्यायामिवामूर्छन्मुहुर्मुहुः ॥ २९१ ।। चिन्तयन्त्यां पतिं तस्याश्चकंपे हृदयं क्षणात् । गर्भ पुनश्चिन्तयन्त्याः क्षणादुल्लसति स्म च ।। २९२ ॥ एवं बुद्धिप्रयोगेण चेल्लणा पूर्णदोहदा । आः पतिघ्यस्मि पापाहमिति मोहमुपाययौ ।। २९३ ।। राजापि राज्यै तत्कालं स्वमक्षतमदर्शयत् । तद्दर्शनादहृष्यच्च पद्मिनीवार्कदर्शनात् ।। २९४ ।। गतेषु मासेषु नवस्वथ चेटकनन्दना । नन्दनं सा प्रसुषुवे मलयोर्वीव चन्दनम् ।। २९५ ।। आदिदेशाथ सा दासीं पितुर्वैर्येष दारकः । तत्क्वापि त्यजतां दूरे पापः पन्नगपोतवत् ।। २९६ ।। दास्याऽशोकवनं गत्वा परित्यक्तः स भव्यभात् । उपपादपदोत्पन्नगीर्वाण इव भासुरः ।। २९७ ॥ तत्र तं बालकं त्यक्त्वा दास्यायान्ती महीभुजा । अप्रच्छि क्व गताऽसीति तादृगेव च साऽब्रवीत् ।।२९८ ।। अशोकवनिकां गत्वा राजाऽप्यालोक्य तं सुतम् । द्वाभ्यां जग्राह पाणिभ्यां प्रीतः स्वामिप्रसादवत् ।।२९९ ।। आगत्य चेल्लणां चोचे कुलोत्पन्ने ! विवेकिनी ! किमकार्षीरकर्मेदमकृत्यं श्वपचैरपि ॥३०० ॥ अपि दुश्चारिणी या स्यादधर्मज्ञातिकर्कशा । पुत्रं 'कुंडं **गोलकं वा साऽपि न ह्येवमुज्झति ।।३०१ ॥ टि- *मांसम् । कुंडो नाम पत्यौ मृते सति यः जारेण जायते ।** गोलकी नाम पत्यौ जीवति यः जारेण जायते ।
कुणिकस्य जन्म।
||१७९॥