________________
त्रिषष्टिशलाका
पुरुषचरिते ॥१७८॥
दशमं पर्व षष्ठमः मर्गः श्रीमहावीरजिनचरितम् ।
स्नेहादेकतया किं नु मृताः स्थ युगपत्सुताः । ज्ञातौ किमावां निःस्नेही वञ्चितौ सह मृत्युना ॥२७६ ।। इति तारं रुदन्तौ तावाचार्य इव तत्त्ववित् । अभयो बोधयामास श्रेणिकेन सहागतः ।। २७७ ॥ जन्मिनां प्रकृतिम॒त्युर्विकृतिर्जीवितं पुनः । ततः स्वभावसिद्धेऽर्थे को विषादो विवेकिनौ ! ॥२७८ ॥ अभयेनेति दंपत्योस्तयोर्बोधितयोः सतोः । कृत्वा संभाषमुचितं श्रेणिकः सदनं ययौ ॥२७९ ॥ ततश्च चेल्लणादेव्या समं मगधभूपतिः । निर्विघ्नं बुभुजे भोगान् पौलोम्येव पुरंदरः ।। २८० ।। अतिवाह्य व्यन्तरायुरुष्ट्रिकाक्षपकोऽपि हि । पुत्रत्वेन चेल्लणायाः कुक्षाववततार सः ॥२८१ ।। तस्य गर्भस्य दोषेण पतिमांसादनेऽभवत् । दुर्दोहदश्चेल्लणाया राक्षस्या अपि यो न हि ॥ २८२ ॥ पतिभक्ता चेल्लणा तं नाऽऽख्यत्कस्यापि दोहदम् । अपूर्णदोहदत्वाच्च क्षीयते स्म दिवेन्दुवत् ॥ २८३ स गर्भश्चेल्लणादेव्या दुर्दोहदविरक्तया । पापमप्युररीकृत्य पात्यमानोऽपि नापतत् ।। २८४ ।। शुष्यदंगी च तां दृष्ट्वा वल्लीमसलिलामिव । पप्रच्छ कारणं राजा प्रेमबन्धुरया गिरा ।। २८५ ॥ मया किमभिभूताऽसि ? खंडिताऽऽज्ञासि वा क्वचित् ? । दुःस्वप्नदृश्वरी वासि ? भनकामासि वा ? प्रिये ! ॥२८६ ।। एवं राज्ञा सोपरोधं पृच्छयमाना कथंचन । तत्तादृगाख्यदापीतविषेव स्खलदक्षरम् ।। २८७ ॥ दोहदं पूरयिष्यामीत्याश्वास्य नृपतिः प्रियाम् । कथं पूर्यो दोहदोऽयमित्यादिक्षदथाभयम् ।। २८८ ॥
कूणिकस्य जन्म।
||१७८॥