________________
दशमं पर्व
त्रिषष्टिशलाकापुरुषचरित ॥१७७॥
सर्गः श्रीमहावीरजिनचरितम् ।
ततोऽर्धजरतीयेन कृताकृतसमीहितः । वीरंगकस्तदखिलं चेटकाय व्यजिज्ञपत् ।। २६३ ।। दुहितुर्हरणात्तेषां रथिकानां वधादपि । चेटको युगपद्रोषतोषाभ्यामभ्यपूर्यत ।। २६४ ।। सुज्येष्ठाऽचिन्तयदहो धिग्धिग्विषयगृध्नुता । सुखकांक्षिभिरीदृक्षा यदाप्यन्ते विडम्बनाः ॥२६५ ।। इत्थं विरक्ता सुज्येष्ठा स्वयमापृच्छ्य चेटकम् । समीपे चन्दनार्यायाः परिव्रज्यामुपाददे ।। २६६ ।। श्रेणिकोऽपि हि सुज्येठे सुज्येष्ठे इति चेल्लणाम् । अभ्यालपदजानानाश्चेल्लणां तत्र तस्थुषीम् ।।२६७ ॥ चेल्लणाऽकथयत्तस्मै सुज्येष्ठा न समागता । सुज्येष्ठायाः कनिष्ठाऽहं चेल्लणेत्यभिधा मम ॥२६८ ।। श्रेणिको व्याजहारैवं नायासोऽभून्मुधा मम । सुभ्र ! त्वमपि सुज्येष्ठा तस्या न खलु हीयसे ।। २६९ ।। चेल्लणा पतिलाभेन भगिनीवञ्चनेन च । निकामं हर्षशोकाभ्यां समकालमलिप्यत ।। २७० ।। श्रेणिकः पवनेनेव रथेनासह्यरंहसा । शीघ्रमाप स्वनगरं पश्चात्तस्याभयोऽपि हि ।। २७१ ।। गान्धर्वेण विवाहेन परिणीयाथ चेल्लणाम् । राजा नागसुलसयोर्गत्वाऽऽख्यत्तत्सुतान्मृतान् ।।२७२ ॥ तौ दंपती नृपाच्छुत्वा सुतोदन्तममंगलम् । मुक्तकंठं रुरुदतुर्विलापं चेति चक्रतुः ।। २७३ ।। रे कृतान्त ! कृतान्तोऽसि पुत्राणां युगपत्कथम् । किमेकशृंखलत्वेन तवाऽभूवन् कदाप्यमी ।। २७४ ।। पक्षिणामप्यपत्यानि भूयांस्यपि भवन्ति हि । क्रमेण तु विपद्यन्ते न ह्येवं युगपत्क्वचित् ।। २७५ ।।
चेल्लणाअपहरणम् ।
||१७७॥
१°तदा भू।