________________
दशमं पर्व षष्ठमः
त्रिषष्टिशलाकापुरुषचरिते ॥१७६॥
सर्गः
श्रीमहावीरजिनचरितम् ।
सुज्येष्ठा तत्प्रभृत्येव स्मरन्ती श्रेणिकं नृपम् । प्रभूतां प्रापदरति रतिनाथवशंवदा ।। २४९ ।। अन्यदा त्वह्नि निर्णीते श्रेणिकः सुलसासुतैः । द्वात्रिंशता सार्धमागात् सुरंगाद्वारसीमनि ।। २५०॥ रथस्थैः सुलसापुत्रैरन्वितोऽथ रथस्थितः । चक्रीव वैताठ्यगुहां सुरंगां श्रेणिकोऽविशत् ।।२५१ ॥ सुरंगानिर्गतं प्रेक्ष्य सुज्येष्ठा मगधेश्वरम् । चित्रदृष्टानुसाराच्चोपलक्ष्य मुमुदेतराम् ।। २५२ ।।। साऽऽख्याय सर्व वृत्तान्तमापप्रच्छे च चेल्लणाम् । प्रत्यज्ञासीच्चेल्लणापि स्थास्यामि त्वदृते न हि ॥२५३ ।। रथमारोपयदथ सुज्येष्ठाऽऽदौ हि चेल्लणाम् । स्वयं त्वगात् समानेतुं द्रुतं रत्नकरंडिकाम् ।। २५४ ॥ ऊचुश्च सुलसापुत्रास्तदा श्रेणिकपार्थिवम् । स्वामिन्न युज्यते स्थातुं सुचिरं वैरिवेश्मनि ।। २५५ ।। आदाय चेल्लणां राजा प्रेरितः सुलसासुतैः । सुरंगयैव व्याघुट्य यथाऽऽयातस्तथा गतः ।। २५६ ।। सुज्येष्ठाऽऽगादुपादाय यावद्रत्नकरंडिकाम् । नापश्यच्छ्रेणिकं तावदभ्रान्तर्भूतचन्द्रवत् ॥ २५७ ॥ तदा चापूर्णकामत्वाद्भगिनीहरणादपि । ज्येष्ठाऽरटन्मुषिताऽस्मि हियते हन्त चेल्लणा ॥२५८ ॥ द्राक् चेटकं संनयन्तं रथी वीरंगकस्तदा । उवाच कोऽयमाक्षेपो मयि सत्यपि नाथ ! ते ।। २५९ ।। ततो वीरंगकः सज्जीभूय युद्धाय दुर्धरः । सुरंगाद्वारमभ्यागात् कन्याप्रत्याजिहीर्षया ।। २६० ॥ सुरंगया गच्छतश्च ततश्च सुलसासुतान् । वीरंगको महाबाहुरेकेनैवेषुणाऽवधीत् ।।२६१ ।। संकीर्णत्वात् सुरंगायाः स रथी तद्रथानथ । यावदाकर्षयत्तावदूरेऽगान्मगधाधिपः ।। २६२ ॥
चेल्लणाअपहरणम् ।
| ||१७६॥