________________
दशमं पर्व षष्ठमः
त्रिषष्टिशलाकापुरुषचरिते ॥१७५॥
सर्गः
श्रीमहावीर
जिनचरितम् ।
अभयादूपरोधेन तदुपादाय दास्यपि । स्वामिन्यै दर्शयामास रुपं श्रेणिकभूपतेः ।। २३६ ॥ रुपमत्यन्तसुभगं सुज्येष्ठा तु विलोक्य तत् । निष्पन्दनेत्रनलिना योगिनीव लयं ययौ ॥ २३७ ॥ जगाद च क्षणं स्थित्वा गत्वा रहसि सत्वरम् । गूढाभिप्रायसर्वस्वनिधानवसुधां सखीम् ।। २३८ ।। यस्येदं फलके रुपं धीमतीच्छामि तं पतिम् । तदेनं संघटयितुं विधिभट्टारकोऽस्तु कः ॥२३९ ।। यद्ययं मे पतिर्न स्यात्तदानी हृदयं मम । पचेलिममिवैर्वारु द्विधा भावि न संशयः ।। २४० ।। तद्भद्रे ! क इहोपाय उपायो यदि वाऽस्त्ययम् । शरणं वणिगेवैष य एतद्रूपमर्चति ।। २४१ ।। तं प्रसादय मत्कार्यधुर्ये ! तद्वाचिकं च मे । तूर्णमागत्य कथयेः स्वस्ति तुभ्यं यशस्विनि ! ।।२४२ ।। गत्वा दास्या तयाऽत्यन्तमभयोऽभ्यर्थितोऽवदत् । पूरयिष्यामि न चिरात्त्वत्स्वामिन्या मनोरथम् ।।२४३ ॥ सुरंगां खानयिष्यामि तमानेष्ये सुरंगया । तत्कालमेवाधिष्ठेयस्त्वत्स्वामिन्याऽपि तद्रथः ।। २४४ ।। त्वत्स्वामिनी च तत्कालं दृष्ट्वा श्रेणिकमागतम् । आलेख्यदृष्टतद्रूपसंवादान्मुदमेष्यति ॥ २४५ ॥ स्थानेऽमुष्मिन् दिनेऽमुष्मिन् क्षणेऽमुष्मिन् सुरंगया । राजैष्यतीति संकेतं तन्मुखेनाभयो ददौ ।।२४६ ॥ दासी तस्यै तदाख्यायाऽऽगत्य चाभयमब्रवीत् । प्रमाणं त्वद्वच इति पुनश्चान्तःपुरं ययौ ।। २४७ ।। अभयोऽपि हि संकेतकथाख्यापनपूर्वकम् । पितृप्रयोजनप्रह्न आह्वत् पितरमाश्वपि ।। २४८ ।। टि-* ऐर्वारु-चीभडु इति गुर्जरभाषायाम् ।
चेल्लणाअपहरणम् ।
||१७५॥