________________
त्रिषष्टिशलाका
पुरुषचरिते
11908 11
विसृज्य तापसीं तस्थौ कथंचिदथ पार्थिवः । पक्षौ विधाय वैशाल्यां यियासुरिव तां स्मरन् ।। २२२ ।। सुज्येष्ठाप्रार्थने दत्त्वा शिक्षां राजगृहेश्वरः । अन्येद्युः प्रेषयामास दूतं चेटकभूपतेः ।। २२३ ।। दूतोऽपि सद्यो वैशाल्यां गत्वा नत्वा च चेटकम् । उवाच वाचिकपटुर्न यच्चटु न वा कटु ।। २२४ ।। सुज्येष्ठां याचते त्वत्तो मत्स्वामी मगधाधिपः । न कन्याप्रार्थनं जातु लज्जायै महतामपि ।। २२५ ॥ चेटकोऽप्यब्रवीदेवमनात्मज्ञस्तव प्रभुः । वाहीककुलजो वाञ्छन् कन्यां हैहयवंशजाम् ।। २२६ ॥ समानकुलयोरेव विवाहो हन्त नान्ययोः । तत्कन्यां न हि दास्यामि श्रेणिकाय प्रयाहि भोः ।। २२७ ॥ दूतेन चागत्य तथाऽख्याते श्रेणिकभूपतिः । खेदमासादयामास जितो भट इवारिभिः ।। २२८ ।। अभयोऽपि हि तत्रस्थः पितृपादाब्जषट्पदः । उवाच तात ! मा शोचीः करिष्ये वः समीहितम् ॥ २२९ ॥ कलाकलापपाथोधिकुंभजन्माऽभयोऽपि हि । गृहे गत्वाऽलिखद्रूपं फलके मगधेशितुः ।। २३० ॥ ततो गुटिकया वर्णस्वरभेदं विधाय सः । वणिग्वेशं गृहीत्वा च वैशालीं नगरीं ययौ ।। २३१ ॥ उपचेटकराजान्तःपुरं चाऽऽपणमग्रहीत् । तत्रान्तःपुरचेटीनां क्रेतव्यमधिकं ददौ ।। २३२ ॥ अभयश्चार्चयन्नित्यं श्रेणिकं लिखितं पटे । दासीपृष्टश्चाऽऽख्यदयं देवो मे श्रेणिको नृपः ।। २३३ ॥ दास्यश्च कथयामासुः सुज्येष्ठायै सविस्मयाः । रुपं तादृग्यथा दृष्टं श्रेणिकस्यातिदैवतम् ॥ २३४ ॥ सुज्येष्ठाऽथ सखीप्रायां ज्येष्ठदासीं समादिशत् । द्रुतमानय तद्रूपं महत्कौतूहलं मम ।। २३५ ।।
दशमं पर्व
षष्ठमः सर्गः
श्रीमहावीर
जिनचरितम् ।
चेल्लणाअपहरणम् ।
11908 11