________________
त्रिषष्टिशलाकापुरुषचरिते ॥१७३॥
दशमं पर्व षष्ठमः सर्गः श्रीमहावीर| जिनचरितम् ।
यान्त्यस्याः केशदासत्वं ते कलापाः कलापिनाम् । मनोज्ञनयनं वक्त्रं निलीनालीव पंकजम् ।। २०८ ।। पत्रावलम्बनं कम्बोः कुरुते कण्ठकन्दलः । क्रीडत्कोकं सर इव वक्षो वक्षोजभूषितम् ।। २०९ ।। नितम्बः स्मरधानुष्कयोग्या भूरिव विस्तृतः । आलानविभ्रमहरावूरु च क्रमवर्तुलौ ॥ २१० ।। बिसकाण्डविडम्बिन्यौ जंघे सरलकोमले । पादौ च ऋजुजंघाकावुन्नालनलिनोपमौ ।। २११ ॥ अहो सौन्दर्यमद्वैतमहो लावण्यमुज्ज्वलम् । अहो अपरमप्यस्याः सर्वं रम्यं मृगीदृशः ।। २१२ ।। अपृच्छच्च महाभागे ! किमियं स्त्रीमतल्लिका । अलेखि स्वप्रतिभया रुपदर्शनतोऽथवा ? ||२१३ ।। तापस्यूचे यथाशक्ति दृष्टं रुपमलेख्यदः । यादृक्तु वर्तते राजस्तादृक् स्याद्दर्पणे यदि ।। २१४ ।। चित्रस्थामपि तां राजा प्रपश्यन् प्रेममोहितः । आलिलिगिषुरिवाभूच्चुचुम्बिषुरिवाथवा ।। २१५ ।। ऊचे च मुक्तावलिववंशे कस्मिन्नभूदियम् ? । दिवं मृगांकलेखेव कां चालंकुरुते पुरीम् ? ॥२१६ ।। धन्यस्य कस्य वा पुत्री लक्ष्मीः क्षीरोदधेरिव ? ।यान्त्यस्याः कानि वा पुण्यान्यक्षराण्यभिधानताम् ।।२१७ ।। सरस्वत्याऽनुजग्रहे कलयेयं कया कया । अस्याः पुंस्पाणिना पाणिश्चुम्बितो यदि वा न वा ? ||२१८ ।। तापसी कथयामास वैशाल्यधिपतेः सुता । हैहयान्वयजातस्य चेटकस्य कुमार्यसौ ।। २१९ ।। निधिः कलानां सर्वासां सुज्येष्ठा नामधेयतः । गुणरुपानुरुपेण तत्तामुद्वोढुमर्हसि ॥ २२० ॥ त्वयि सत्यपि चेदस्याः पतिरन्यो भविष्यति । तृतीयपुरुषार्थेन तर्हि त्वमसि वंचितः ।। २२१ ॥
चेल्लणाअपहरणम् ।
।।१७३॥