________________
त्रिषष्टिशलाकापुरुषचरिते ||१७२॥
| दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् ।
कलाकलापकुशले श्रुतार्थोपनिषद्विदौ । मूर्ती इव सरस्वत्या रेमाते ते परस्परम् ।। १९५ ।। सममानर्चतुर्देवं धर्म शुश्रुवतुः समम् । चक्रतुः सममन्यच्च ते द्वे एकात्मिके इव ।। १९६ ॥ अपरेधुश्च सुज्येष्ठाचेल्लणाभ्यामलंकृतम् । कन्यान्तःपुरमभ्यागादेका स्थविरतापसी ॥ १९७ ॥ सा च व्याख्यच्छौचमूलं धर्म पापविनाशकम् । उत्फुल्लगल्लमज्ञानपर्षदीव तयोः पुरः ।। १९८ ॥ सुज्येष्ठावोचदाः शौचमशुभाश्रवरुपकम् । अशुभश्चाश्रवः पापहेतुः पापच्छिदे कथम् ।। १९९ ।। सुज्येष्ठैव गुणज्येष्ठा तस्या धर्म निराकरोत् । श्रुतकूपनिपानाभैर्वचोभिर्युक्तिवर्मितैः ।। २०० ॥ ततो निरुत्तरीभूतां तां मुद्रितमुखामिव । शुद्धान्तदास्यो जहसुर्मुखमर्कटिकादिभिः ।। २०१॥ स्वस्वामिनीजयोन्मत्तास्तामन्तःपुरचेटिकाः । उत्तालतुमुलाः कण्ठे गृहीत्वा निरवासयन् ।। २०२ ।। उपादातुं गता दातुं प्रतीतेवाथ तापसी । पूजार्थिन्यागता सैवं प्रत्युताऽनर्थमासदत् ।। २०३ ॥ यान्ती च तापसी दध्याविमा वैदग्ध्यगर्विताम् । भूयसीषु सपत्नीषु दुःखपात्रीकरोम्यहम् ।।२०४ ।। सुज्येष्ठारुपमथ सा पिण्डस्थध्यानलीलया । कृत्वा मनस्यालिलेख पटेऽखिलकलापटुः ।। २०५ ॥ लिखितं तच्च तद्रूपं त्वरिता क्रूरतापसी । गत्वा राजगृहे राज्ञेऽदर्शयच्छ्रेणिकाय सा ।। २०६ ॥ तां दृष्ट्वा लिखितां नेत्रमृगैकमृगजालिकाम् । राजा राजगृहाऽधीशः सानुरागमवर्णयत् ।। २०७॥ १ मुखिमी ।
श्रेणिकचरित्रम् ।
||१७२॥