________________
त्रिषष्टिशलाकापुरुषचरिते ।।१७१॥
दशमं पर्व अष्ठमः बर्गः श्रीमहावीरजिन
चरितम् ।
नन्दामानन्द्य नृपतिर्नीत्वा च स्वं निकेतनम् । पट्टराज्ञीपदेऽकार्षीत् सीतामिव रघूद्वहः ॥ १८१ ॥ ततः स्वसुः सुसेनायाः पुत्रीं मंत्रिषु धुर्यताम् । राज्यस्यार्धं चाभयाय नृपतिः श्रेणिको ददौ ।। १८२ ।। भक्तितः पितरि स्वस्य पदातिपरमाणुताम् । मन्वानः साधयामास दुःसाध्यान् भूभुजोऽभयः ।। १८३ ॥ इतश्च वसुधावध्वा मौलिमाणिक्यसन्निभा । वैशालीति श्रीविशाला नगर्यस्ति गरीयसी ।। १८४ ।। आखण्डल इवाखण्डशासनः पृथिवीपतिः । चेटीकृतारिभूपालस्तत्र चेटक इत्यभूत् ।। १८५ ।। पृथग्राज्ञीभवास्तस्य बभूवुः सप्त कन्यकाः । सप्तानामपि तद्राज्यांगानां सप्तेव देवताः ॥१८६ ॥ प्रभावती पद्मावती मृगावती शिवाऽपि च । ज्येष्ठा तथैव सुज्येष्ठा चेल्लणा चेति ताः क्रमात् ।। १८७ ।। चेटकस्तु श्रावकोऽन्यविवाहनियमं वहन् । ददौ कन्या न कस्मैचिदुदासीन इव स्थितः ।। १८८॥ तन्मातर उदासीनमपि ह्यापृच्छय चेटकम् । वराणामनुरुपाणां प्रददुः पंच कन्यकाः ।। १८९ ॥ प्रभावती वीतभयेश्वरोदायनभूपतेः । पद्मावती तु चम्पेशदधिवाहनभूभुजः ।। १९० ॥ कौशाम्बीशशतानीकनृपस्य तु मृगावती । शिवा तूज्जयिनीशस्य प्रद्योतपृथिवीपतेः ।। १९१ ॥ कुण्डग्रामाधिनाथस्य नन्दिवर्धनभूभुजः । श्रीवीरनाथज्येष्ठस्य ज्येष्ठा दत्ता यथारुचि ।। १९२ ।। सुज्येष्ठा चेल्लणा चापि कुमार्यावेव तस्थतुः । रुपश्रियोपमाभूते ते द्वे एव परस्परम् ।। १९३ ।। ते दिव्याकारधारिण्यौ दिव्यवस्त्रविभूषणैः । अवियुक्ते सदाऽभूतां तारे इव पुनर्वसू ।।१९४ ।।
श्रेणिकचरित्रम् ।
||१७१॥