________________
त्रिषष्टिशलाकापुरुषचरिते ॥१७०॥
अभयं श्रेणिकः पुत्रप्रतिपत्त्याथ सस्वजे । बन्धुरज्ञायमानोऽपि दृष्टो मोदयते मनः ।। १६८ ॥
दशमं पर्व
षष्ठमः कुतस्त्वमागतोऽसीति पृष्टः श्रेणिकभूभुजा । आगतोऽस्मि पुराणातटादित्यभयोऽवदत् ।। १६९ ।।
सर्गः राजापृच्छद्भद्रमुख !' किं भद्र इति विश्रुतः । श्रेष्ठी तत्रास्ति ? तस्यापि नन्दानाम्नी च नन्दना ? ।। १७० ॥||५|| श्रीमहावीरअस्त्येव सम्यगित्युक्ते तेन भूयोऽपि भूपतिः । ऊचे नन्दोदरिण्यासीत् किमपत्यमजायत ? ॥ १७१ ॥
जिन
चरितम् । अथाऽऽख्यत्कान्तदन्तांशुश्रेणिः श्रेणिकसूरिदम् । देवाभयकुमाराख्यं सा नन्दनमजीजनत् ।। १७२ ।। किंरुपः किंगुणः सोऽस्तीत्युदिते सति भूभुजा । ऊचेऽभयः स एवाहं स्वामिन्नस्मीति चिन्त्यताम् ।।१७३ ॥ परिष्वज्यांकमारोप्य तमाघ्राय च मूर्धनि । स्नेहात्स्नपयितुमिव राजाऽसिञ्चद् दृगंभसा ।। १७४ ॥ कुशलं वत्स ! ते मातुरिति पृष्टे महीभुजा । इति विज्ञपयामास बद्धाञ्जलिपुटोऽभयः ।। १७५ ॥ अनुस्मरन्ती भुंगीव त्वत्पादाम्भोजसंगमम् । स्वामिन्नायुष्मती मेऽम्बा बाह्योद्यानेऽस्ति संप्रति ।। १७६ ।। ततो नन्दां समानेतुममन्दानन्दकन्दलः । न्ययुङ्क्त सर्वसामग्रीमग्रेकृत्वा नृपोऽभयम् ॥ १७७ ॥ ततः स्वयमपि प्राज्योत्कंठोल्लिखितमानसः । नन्दामभिययौ राजा राजहंस इवाब्जिनीम् ।। १७८ ॥ शिथिलीभूतवलयां कपोललुलितालकाम् । अनञ्जनाक्षी कबरीधारिणी मलिनांशुकाम् ।। १७९ ॥
१७०॥ तनोस्तनिम्ना दधतीं द्वितीयेन्दुकलातुलाम् । ददर्श राजा सानन्दो नन्दामुद्यानवासिनीम् ।। १८० ॥ १ सुम । २ क्तो।
श्रेणिकचरित्रम।