________________
दशमं पर्व षष्ठमः
त्रिषष्टिशलाकापुरुषचरिते ||१६९॥
सर्गः
श्रीमहावीर
जिन
चरितम् ।
मातरं बहिरुद्याने विमुच्य सपरिच्छदाम् । तत्र स्वल्पपरीवारः प्रविवेशाभयः पुरे ॥ १५४ ॥ इतश्च मेलितान्यासंस्तदा श्रेणिकभूभुजा । शतानि पंचैकोनानि मन्त्रिणां मन्त्रसत्रिणाम् ।। १५५ ॥ मन्त्रिपञ्चशती पूर्णां कर्तुं नरपतिस्ततः । लोके गवेषयामास कंचिदुत्कृष्टपूरुषम् ।। १५६ ।। ततश्च तत्परीक्षार्थं शुष्ककूपे निजोर्मिकाम् । प्रचिक्षेप क्षितिपतिलोकानित्यादिदेश च ।। १५७ ।। आदास्यते करेणैतामूर्मिकां यस्तटस्थितः । तस्य धीकौशलक्रीती मदीया मन्त्रिधुर्यता ॥१५८ ।। तेऽप्यूचुर्यदशक्यानुष्ठानमस्मादृशामिदम् । ताराः करेण यः कषेत्स इमामूर्मिकामपि ॥ १५९ ।। ततोऽभयकुमारोऽपि सम्प्राप्तस्तत्र सस्मितम् । ऊचे किं गृह्यते नैषा किमेतदपि दुष्करम् ? ।। १६० ।। तं दृष्ट्वा च जना दध्युः कोऽप्यसावतिशायिधीः । समये मुखरागो हि नृणामाख्याति पौरुषम् ।। १६१ ॥ ऊचुस्ते तं गृहाणेमामूर्मिकां तत्पणीकृताम् । अर्धराज्यश्रियं पुत्री धुर्यतां चैषु मंत्रिषु ।। १६२ ।। ततोऽभयकुमारोऽपि मुद्रिकां कूपमध्यगाम् । आर्द्रगोमयपिण्डेन निजघानोपरिस्थितः ।। १६३ ।। प्रक्षिप्योपरि तत्कालं ज्वलन्तं तृणपूलकम् । सद्यः संशोषयामास गोमयं तन्महामतिः ॥१६४ ॥ नन्दाया नन्दनः शीघ्रं कारयित्वाऽथ सारणिम् । वारिणाऽपूरयत् कूपं विस्मयेन च तं जनम् ।। १६५ ।। तद्गोमयं श्रेणिकसूः करेण तरदाददे । धीमद्भिः सुप्रयुक्तस्य किमुपायस्य दुष्करम् ? ॥१६६ ।। तस्मिन् स्वरुपे चाऽऽरक्षैर्विज्ञप्ते जातविस्मयः । नृपोऽभयकुमारं द्रागाजुहावाऽऽत्मसन्निधौ ॥ १६७ ।।
श्रेणिकचरित्रम् ।
है| ॥१६९॥