________________
दशमं पर्व
त्रिषष्टिशलाकापुरुषचरिते ॥१८४॥
षष्ठमः सर्गः श्रीमहावीरजिनचरितम् ।
सोऽभ्यरण्यं दधावेऽथाऽऽध्मातताम्रारुणाननः । विक्षिपन्नतिदूरेण तापसान्वमथूनिवः ॥ ३५४ ॥ श्रेणिकोऽपि तमानेतुं हयारुढः सुतैरगात् । मृगयाप्राप्तमृगवत् परिवेष्टयति स्म च ।। ३५५ ।। प्रलोभनां तर्जनं वा सादिनां स मतंगजः । बलवद्व्यन्तरग्रस्त इव मेने न किंचन ।। ३५६ ।। नन्दिषेणस्य तु वचो निशम्य तमुदीक्ष्य च । स शान्तोऽभूदवधिना जानन् प्राग्जन्म तत्तथा ॥३५७ ।। नन्दिषेणोऽपि सपदि कक्षामालम्ब्य तं गजम् । अपरायां दत्तपादोऽध्यारोहन्मुष्टिभिस्त्रिभिः ।। ३५८ ॥ नन्दिषेणस्य वचसा दन्तघातादिकाः क्रियाः । स कुर्वन् शिक्षित इवाऽऽलानगोचरतां ययौ ।। ३५९ ॥ पट्ट विश्राणयामास श्रेणिकस्तस्य हस्तिनः । प्रसादपात्रीचक्रे च युवराजमिवाथ तम् ॥३६० ॥ अपरेऽपि हि कालाद्याः पुत्रा प्रथितविक्रमाः । अभूवन् कुलपत्नीषु श्रेणिकस्य महीपतेः ।। ३६१ ।। इतश्च विहरन् भव्यावबोधाय जगद्गुरुः । सुरासुरपरीवारो ययौ राजगृहं पुरम् ।। ३६२ ॥ तस्मिन् गुणशिले चैत्ये चैत्यवृक्षोपशोभितम् । सुरप्रक्लृप्तं समवसरणं शिश्रिये प्रभुः ।। ३६३ ।। श्रुत्वा च समवसृतं श्रीवीरं श्रेणिको नृपः । ऋद्ध्या महत्या ससुतो वन्दितुं समुपाययौ ।। ३६४ ।। प्रभुं प्रदक्षिणीकृत्य नत्वा च श्रेणिको नृपः । निषध च यथास्थानमिति तुष्टाव भक्तिमान् ।। ३६५ ॥ १ सान्मधुपानि । टि.- *वमथूः करसीकरः (शुण्डानिर्गतबिन्दुः)
सेचनकवृत्तान्तः ।
॥१८४॥