________________
त्रिषष्टिशलाकापुरुषचरिते 11१६७॥
दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् ।
संवृत्याऽट्ट ततः श्रेष्ठी तं नीत्वा निजवेश्मनि । स्नपयित्वा परिधाप्य सगौरवमभोजयत् ।। १२८ ॥ एवं च तिष्ठस्तद्गहे श्रेणिकः श्रेष्ठिनाऽन्यदा । कन्यां परिणयेमां मे नन्दा नामेत्ययाच्यत ।। १२९ ।। ममाऽज्ञातकुलस्यापि कथं दत्से सुतामिति । श्रेणिकेनोक्त ऊचे स ज्ञातं तव गुणैः कुलम् ।। १३०॥ ततस्तस्योपरोधेनोदधेरिव सुतां हरिः । श्रेणिकः पर्यणैषीत्तां भवद्धवलमंगलम् ।। १३१ ॥ भुआनो विविधान् भोगान् सह वल्लभया तया । अतिष्ठच्छ्रेणिकस्तत्र निकुञ्ज इव कुञ्जरः ॥ १३२ ॥ श्रेणिकस्य स्वरुपं तद्विवेदाऽऽशु प्रसेनजित् । सहस्राक्षा हि राजानो भवन्ति चरलोचनैः ।।१३३ ।। उग्रं प्रसेनजिद्रोगं प्रापाऽथान्तं विदन्निजम् । ततः श्रेणिकमानेतुं शीघ्रमादिक्षदौष्ट्रिकान् ।। १३४ ।। औष्ट्रिकेभ्यो ज्ञातवार्तः पितुरत्यर्तिवार्तया । नन्दा सम्बोध्य सस्नेहं प्रतस्थे श्रेणिकस्ततः ।। १३५ ।। वयं पाण्डुरकुड्या गोपाला राजगृहे पुरे । आह्वानमंत्रप्रतिमान्यवराणीति चार्पयत् ।। १३६ ॥ माऽन्या तातस्य रोगार्तेर्मदर्तिभूदिति द्रुतम् । उष्ट्रीं श्रेणिक आरुह्य ययौ राजगृहं पुरम् ॥ १३७ ।। तं दृष्ट्वा मुदितो राजा हर्षनेत्राश्रुभिः समम् । राज्येऽभ्यषिञ्चद्विमलैः सुवर्णकलशाम्बुभिः ॥ १३८ । राजाऽपि संस्मरन् पार्श्वजिनं पंचनमस्क्रियाम् । चतुःशरणमापन्नो विपद्य त्रिदिवं ययौ ॥ १३९ ।। विश्वं विश्वंभराभारं बभार श्रेणिकस्ततः । तेन गर्भवती मुक्ता गर्भ नन्दापि दुर्वहम् ।। १४० ॥
श्रेणिकचरित्रम् ।
||१६७॥
१ माज्ञाता तस्य रो।