________________
त्रिषष्टिशलाकापुरुषचरिते ॥१६६॥
दशमं पर्व | षष्ठमः पसर्गः
श्रीमहावीरजिनचरितम् ।
इति तत्याज नगरं तद्राजा सपरिच्छदः । क्रोशेनैकेन च ततः शिबिरं स न्यवेशयत् ॥ ११५ ॥ सञ्चरन्तस्तदा चैवं वदन्ति स्म मिथो जनाः । क्व नु यास्यथ ? यास्यामो वयं राजगृहं प्रति ।। ११६ ।। ततो राजगृहं नाम तत्रैव नगरं नृपः । चकार परिखावप्रचैत्यसौधाऽट्टबन्धुरम् ।। ११७ ।। राज्यार्हमानिनो मैनं राज्याहं सूनवोऽपरे । ज्ञासिषुरित्यवाऽज्ञासीच्छ्रेणिकं पृथिवीपतिः ॥११८ ॥ पृथक् पृथक् कुमाराणां ददौ देशान्नरेश्वरः । न किंचिच्छ्रेणिकस्यास्तु राज्यमस्यायताविति ।। ११९ ।। ततोऽभिमानी स्वपुरात् कलभः काननादिव । निःसृत्य श्रेणिकोऽगच्छद्रेणातटपुरं क्रमात् ।। १२० ।। तत्र च प्रविशन भद्राऽभिधस्य श्रेष्ठिनोऽथ सः । कर्म लाभोदयं मूर्तमिवोपाविशदापणे ॥ १२१ ।। तदा च नगरे तस्मिन् विपुलः कश्चिदुत्सवः । नव्यदिव्यदुकूलांगरागपौराऽऽकुलोऽभवत् ।। १२२ ।। प्रभूतक्रायकैरासीत् स श्रेष्ठी व्याकुलस्तदा । कुमारोऽप्यार्पयद्बद्ध्वा तत्पुटापुटिकादिकम् ।। १२३ ।। द्रव्यं कुमारमाहात्म्याच्छ्रेष्ठी भूयिष्ठमार्जयत् । पुण्यपुंसां विदेशेऽपि सहचर्यो नन श्रियः ।। १२४ ॥ अद्याऽवितथपुण्यस्य कस्यातिथिरसीत्यथ । श्रेणिकः श्रेष्ठिना पृष्टो भवतामित्यभाषत ।।१२५ ॥ नन्दायोग्यो वरो दृष्टः स्वप्नेऽद्य निशि यो मया । असौ साक्षात् स एवेति श्रेष्ठी चेतस्यचिन्तयत् ।। १२६ ॥ सोऽभाषिष्ट च धन्योऽस्मि यद्भवस्यतिथिर्मम । असावलसमध्येन ननु गंगा समागता ।। १२७ ।। १ तध्वोपा।
श्रेणिक
चरित्रम् ।
||१६६॥