________________
त्रिषष्टिशलाकापुरुषचरिते ॥१६५॥
दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् ।
चलयित्वा चलयित्वा श्रेणिकस्तु करंडकम् । बुभुजे मोदकक्षोदं शलाकाविवरच्युतम् ॥ १०२ ।। रुप्यशुक्त्या घटस्याधो गलद्वार्बिन्दुपूर्णया । स पयोऽपि पपौ किं हि दुःसाध्यं सुधियां धियः ।। १०३ ।। एवं परीक्षानियूढं श्रेणिकं बुद्धिसंपदा । अमस्त राज्यार्हतया कुशाग्रनगरेश्वरः ।। १०४ ।। कुशाग्रे चाभवच्छीघ्रं शीघ्रमनेरुपद्रवः । ततश्चाघोषणां राजा प्रसेनजिदकारयत् ।। १०५ ।। उत्थास्यति पुरे वह्निर्यस्य यस्य गृहादिह । स स निर्वासनीयोऽस्मात् पुरान्मय इवाऽऽमयी ॥१०६ ।। सूपकारप्रमादेन राज्ञ एवाऽन्यदा गृहात् । उदस्थादग्निरग्निर्हि न स्वः कस्यापि विप्रवत् ।। १०७ ॥ तस्मिन् प्रदीपने वृद्धिमुपेयुषि महीपतिः । यो यद् गृह्णाति मद्गेहात्तत्तस्येत्यादिशत् सुतान् ।। १०८ ।। सर्वे कुमारा हस्त्यादि समादाय यथारुचि । निर्ययुः श्रेणिकस्त्वेकां भम्भामादाय निर्ययौ ।। १०९ ।। किमेतत्कृष्टमित्युक्तो नृपेण श्रेणिकोऽवदत् । जयस्य चिह्न भम्भेयं प्रथमं पृथिवीभुजाम् ।। ११०॥ अस्याः शब्देन भूपानां दिग्यात्रामंगलं महत् । रक्षणीया क्षमापालैः स्वामिंस्तदियमेव हि ।।१११ ।। ततश्चैवं महेच्छत्वप्रसन्नः पृथिवीपतिः । श्रेणिकस्य ददौ भम्भासार इत्यपराभिधाम् ।। ११२ ॥ इदं च न विसस्मार तदा राजा प्रसेनजित् । उत्तिष्ठेद्यद्गृहादग्निः स पुरे न वसेदिति ।। ११३ ॥ ततश्चाचितयन्नाऽहमात्मानमनुशास्मि चेत् । सर्वथा तर्हि पर्याप्तं परेषामनुशासनम् ॥११४ ॥
RAHARASHRSSHRSHASHRSS
श्रेणिकचरित्रम् ।
||१६५॥
१-२ वल।