________________
त्रिषष्टिशलाकापुरुषचरिते ॥१६४॥
दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् ।
धात्रीभिर्लाल्यमानास्ते क्रमाद्ववृधिरे सुताः । कलमा इव विन्ध्याद्रावखण्डितसमीहिताः ॥ ८९ ।। प्रांगणे ते रुरुचिरे रममाणाः कुमारकाः । गृहलक्ष्मीविहंगम्याः क्रीडाक्षितिरुहा इव ।। ९० ।। उत्संगे नागरथिको ग्राहं ग्राहं कुमारकान् । स्नेहादस्नपयदिवाऽऽनन्दजैर्बाष्पवारिभिः ॥९१ ।। पादे क्रोडे शिरोदेशे लगमानैः कुमारकैः । विरेजे नागरथिकः सिंहपोतैरिवाचलः ॥ ९२ ।। सर्वेऽपि नागरथिनः सूनवो वयसा समाः । ते श्रेणिककुमारस्य बभूवुरनुयायिनः ।। ९३ ।। अन्यदा च स्वपुत्राणां राज्यार्हत्वं परीक्षितुम् । एकत्र पायसस्थालान्यशनाय नृपोऽर्पयत् ।। ९४ ॥ ततो भोक्तुं प्रवृत्तानां कुमाराणाममोचयत् । व्याघ्रानिव व्यात्तवक्त्रान सारमेयान् स सारधीः ।। ९५ ॥ कुमारा द्रुतमुत्तस्थुरापतत्सु ततः श्वसु । एकस्तु श्रेणिकस्तस्थौ धियां धाम तथैव हि ।। ९६ ।। सोऽन्यस्थालात्पायसान्नं स्तोकं स्तोकं शुनां ददौ । यावल्लिलिहिरे श्वानस्तावच्च बुभुजे स्वयम् ।। ९७ ॥ येन केनाप्युपायेन परानेष निरोत्स्यति । भोक्ष्यते च स्वयं पृथ्वी राजा तेनेति रञ्जितः ॥९८ ।। राजा पुनः परीक्षार्थं सुतानामन्यदा ददौ । मोदकानां करण्डांश्च पयस्कुंभांश्च मुद्रितान् ।। ९९ ॥ इमां मुद्रामभञ्जन्तो भुञ्जीध्वं मोदकानमून् । पयः पिबत मा कृढ्वं छिद्रमित्यादिशन्नृपः ।। १०० ।। विना श्रेणिकमेतेषां कोऽपि नाऽभुक्त नाऽपिबत् ।बुद्धिसाध्येषु कार्येषु कुर्युसर्जस्विनोऽपि किम् ॥१०१॥
सुलसावृत्तान्तः।
||१६४॥