________________
त्रिषष्टिशलाकापुरुषचरिते ॥१६३॥
दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् ।
सुलसा श्राविकाऽप्यूचे यदि तुष्टोऽसि तन्मम । देहि पुत्रमपुत्राया नान्यदिष्टमतः परम् ॥७५ ।। द्वात्रिंशतं स गुटिका दत्त्वा देवोऽब्रवीदिदम् । क्रमेण भक्षयेरेतास्तावन्तः स्युः सुतास्तव ॥७६ ।। पुनः प्रयोजनवशात् स्मर्तव्योऽहं त्वयाऽनघे । एष्यामि भूय इत्युक्त्वा त्रिदशः स तिरोदधे ।।७७ ॥ अचिन्तयच्च सुलसा क्रमेण गुटिकाऽदनात् । बहूनां बालरुपाणां मर्दिष्यति हि कोऽशुचिम् ।। ७८ ।। तस्मात्प्राश्नाम्यहं सर्वा युगपद् गुटिका इमाः । यथैकोऽपि भवेत् पुत्रो द्वात्रिंशल्लक्षणान्वितः ॥७९ ॥ इत्थं विमृश्य स्वधिया सा प्राश गुटिकाः समाः । तथा बुद्धिरियं जज्ञे नान्यथा भवितव्यता ।। ८० ॥ उत्पेदिरे तदुदरे गर्भा द्वात्रिंशदप्यथ । तैर्गर्भरसहा साभूदल्लीव बहुभिः फलैः ।। ८१ ॥ सा गर्भान् धर्तुमसहा वज्रसारान् कृशोदरी । कायोत्सर्गस्थिता देवं सस्मार पुनरेव तम् ।। ८२ ।। स्मृतमात्रोपस्थितेन सद्यस्तेनाऽमरेण सा । किं स्मृतोऽस्मीति पृष्टऽऽख्यत्तां तथा गुटिकाकथाम् ॥ ८३ ॥ देवोऽवदत् किं गुटिका युगपद् भक्षितास्त्वया ? । अमोघाः खल्विमास्तेन गर्भास्तावन्त एव ते ।। ८४ ।। न साधु विदधे भद्रे ! त्वयेदमृजुचेतसा । पुत्रास्तुल्यायुषो ह्येवं द्वात्रिंशदपि भाविनः ।। ८५ ।। मा विषीद महाभागे ! बलिष्ठा भवितव्यता । गर्भपीडापहारं तु करिष्ये सुस्थिता भव ।। ८६ ।। सुलसाया गर्भपीडामपहृत्य स नाकसद् । जगाम साऽभूत्स्वस्था च गूढगर्भा च भूरिव ।। ८७ ॥ पूर्णे काले च सुलसा शुभेऽहनि शुभे क्षणे । द्वात्रिंशल्लक्षणान् पुत्रान् द्वात्रिंशतमजीजनत् ।। ८८ ।।
सुलसावृत्तान्तः ।
||१६३॥