________________
त्रिषष्टिशलाकापुरुषचरिते ॥१६२॥
दशमं पर्व षष्ठमः सर्ग श्रीमहावीरजिनचरितम् ।
मितमौक्तिकालंकारा नवोत्फल्लेव मल्लिका । कौसुंभवसना संध्येवारुणाम्रा प्रगेतनी ।। ६२ ।। वीतरागार्चनपरा ब्रह्मचर्यपरायणा । समाहितमनाः साऽस्थात्पतिदुःखार्द्रमानसा ॥६३ ।। ।। त्रिभिर्विशषकम्।। इतश्च शक्रः सदसि प्रशंसामिति निर्ममे । श्राविका उपसुलसां साम्प्रतं भरतावनी ।। ६४ ।। एको देवस्तदाकर्ण्य विस्मयोत्कर्णिताननः । सुलसायाः श्राविकात्वं परीक्षितमुपाययौ ।। ६५ ॥ देवार्चनप्रसक्तायाः सुलसायाः स वेश्मनि । प्राविशत् साधुरुपेण विरचय्य निषेधिकाम् ।। ६६ ॥ सुलसापि हि तं दृष्ट्वाऽनभ्रवृष्टिवदागतम् । भक्त्या ववन्देऽपृच्छञ्च तदागमनकारणम् ॥६७ ।। स उवाच ममाख्यातं वैद्येन त्वद्गृहेऽस्ति यत् । लक्षपाकं महातैलं ग्लानार्थ तत्प्रदीयताम् ।। ६८ ॥ सफलस्तैलपाकोऽयं साधावुपकरिष्यते । इत्युदीर्य मुदा तैलकुम्भमभ्यानिनाय सा ।। ६९ ॥ स तैलकुम्भो देवेन स्वशक्त्या पातित करात् । द्राक् च त्रटिति पुस्फोट कुलायगलिताण्डवत् ।।७०॥ तैलकुम्भो द्वितीयोऽपि तया पुनरढौक्यत । तथैव सोऽपि स्फुटितो न पुनर्विषसाद सा ॥७१ ।। तैलकुम्भस्तृतीयोऽपि तयाऽऽनीतस्तथाऽस्फुटत् । सा दध्यौ चाल्पपुण्याऽस्मि मोघयाञ्चेन साधुना ॥७२ ॥ देवस्ततो निजं रुपं धृत्वेति निजगाद ताम् । भद्रे ! तव श्राविकात्वं प्रशशंस दिवस्पतिः ॥ ७३ ॥ शक्रप्रशंसया चैष विस्मितः स्वर्गवास्यहम् । त्वत्परीक्षार्थमायातस्तुष्टोऽस्मि च वरं वृणु ॥७४ ।। १ को यः सा। कः सः यः सा । २ डिति ।
सुलसावृत्तान्तः ।
॥१६२॥