________________
त्रिषष्टिशलाकापुरुषचरित ||१६१॥
पतिव्रतात्वसम्यक्त्वाऽऽर्जवप्रभृतयो गुणाः । तस्यां युगपदावात्सुः सपांशुक्रीडका इव ।। ४९ ॥ एकदा नागरथिकोऽपुत्रोऽचिन्तयदुच्चकैः । सनालनलिनाकारकरतल्पशयाननः ।। ५० ॥ पुत्रमुल्लापयिष्यामि लालयिष्यामि चेति मे । अपुत्रस्याऽवकेशीव निष्फलोऽभून्मनोरथः ॥ ५१ ॥ न बाल्याद् ब्रह्म विदधे पुत्रवत्रं च नैक्षि यैः । धिक् तेषां कामवैवश्यं लोकद्वितयवंचकम् ।। ५२ ।। इति चिन्ताविवर्णास्यं पंकमग्नमिव द्विपम् । पति प्रोवाच सुलसा विनयाद्रचिताञ्जलिः ।। ५३ ॥ हस्तशय्या मुखस्यैवं चिन्तामाख्याति नाथ ! ते । किं चिन्तयस्यादिश मे मां चिन्ताभागिनीं कुरु ।। ५४ ।। नागोऽप्याख्यदपुत्रोऽस्मि पुत्रकौतूहलं च मे । न किंचिदस्त्यौपयिकं पुत्रीयं पुत्रकाम्यतः ।। ५५ ।। सुलसोवाच कन्यास्त्वं बह्वीः परिणयाऽपराः । पुत्रप्रसविनी तासु किमेकापि न भाविनी ?॥५६ ॥ नागोऽप्यूचे त्वयैवाहं जायावानिह जन्मनि । जायाभिः कृतमन्याभिस्तत्पुत्राणां तु का कथा ।। ५७ ॥ त्वदंगसंभवं पुत्रमिच्छामि प्रियदर्शने! । स आवयोः प्रीतिवल्ले: फलायेत चिरादपि ।। ५८ ॥ त्वं प्राणास्त्वं प्रतिवपुस्त्वं मन्त्री त्वं च मे सखा । तद्यतस्व सुतार्थेऽस्मिन्नुपयाचितकादिभिः ।। ५९ ॥ सुलसोचे करिष्येऽहमदाराधनां प्रिय ! । अर्हदाराधनैवैका सर्वकार्येषु कामधुक ।।६०॥ आचामाम्लादिभिरथ तपोभिरतिदुस्तपैः । आजन्मापि पवित्रं स्वं पावयन्ती विशेषतः ॥६१ ॥
दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् ।
HARSHASHASARASHTR
सुलसावृत्तान्तः।
||१६१||
१ पुत्रार्थ । २°न्मादि । ३°न्मात्रि ।
A