________________
त्रिषष्टिशलाका
पुरुषचरिते
॥१६० ॥
तत्प्रसीद द्वितीयेऽपि मासक्षपणपारणे । मत्प्रांगणमलंकुर्याः कल्पशाखीव नन्दनम् ॥ ३६ ॥ तथेति प्रतिपेदाने तापसेऽगान्नृपो गृहम् । गणयन्नङ्गुलस्तस्थौ तत्पारणदिनाय च ॥ ३७ ॥ पूर्णे च मासक्षपणे स तपस्वी नृपौकसि । ययौ दैवादभूद्राज्ञः प्राग्वद्वपुरपाटवम् ॥ ३८ ॥ तथैव पिहिते द्वारे व्याघुट्याऽगात्स उष्ट्रिकाम् । स्वस्थीभूतोऽथ तं राजा न्यमंत्रयत पूर्ववत् ॥ ३९ ॥ पूर्णेऽथ मासक्षपणे तृतीयेऽपि स तापसः । तथैवाऽगात्तथैवाऽभूद्राज्ञः पुनरपाटवम् ।। ४० ।। राजकीयैरचिन्त्येष तपस्व्येति यदा यदा । तदा तदा भवत्यस्मत्स्वामिनोऽशिवमेव हि ॥ ४१ ॥ ते चारक्षानथादिक्षंस्तपस्वी मन्त्रिसूरपि । प्रविशन्नप्यसौ सर्प इव निर्वास्यतामहो ।। ४२ ।। कृते तथैवाऽऽरक्षैश्च निदानं तापसोऽकरोत् । भूयासमहमेतस्य वधाय नृपतेरिति ॥ ४३ ॥ मृत्वा च तापसो जज्ञे सोऽल्पर्द्धिर्वानमन्तरः । राजाऽपि तापसो भूत्वा तामेव गतिमाप सः ॥ ४४ ॥ च्युत्वा सुमंगलः सोऽथ प्रसेनजिदिलापतेः । सुतोऽभूच्छ्रेणिको नाम धारिणीकुक्षिसंभवः ।। ४५ ।। इतश्च तत्रैव पुरे रथिको नाग इत्यभूत् । प्रसेनजिन्महीपालचरणाम्भोजषट्पदः ।। ४६ ।। दयावानार्हतो दाता परनारीसहोदरः । वीरो धीरोऽधीतकलः स सर्वगुणभूरभूत् ।। ४७ ।। नामधेयेन सुलानलसा पुण्यकर्मणि । बभूव गेहिनी तस्य पुण्यश्रीरिव देहिनी ॥ ४८ ॥
I
१ क्षास्तथा ।
दशमं पर्व
षष्ठमः सर्गः
श्रीमहावीर
जिनचरितम् ।
श्रेणिक
जन्म |
।।१६० ।।