________________
षष्ठः सर्गः ।
त्रिषष्टिशलाकापुरुषचरिते ॥१५७॥
दशमं पर्व षष्टमः सर्गः श्रीमहावीरजिनचरितम् ।
श्रेणिकजन्म।
इतश्चाऽत्रैव भरते कुशाग्रपुरपत्तने । कुशाग्रीयमतिरभूत् प्रसेनजिदिलापतिः ॥ १ ॥ अलंकृताऽशेषदिक्कस्तस्यापारो यशोऽर्णवः । जग्रसे विद्विषां कीर्तिनिर्झरिणीः समन्ततः ॥२॥ तस्याऽभूत् केवलं राज्ये शोभायै सैन्यसंग्रहः । यत्प्रतापानलेनैव वैरिव्याघ्राननाशयत् ।।३।। स्ख्ल्योऽद्रिणा वायुरपि दंभोलिरपि वार्द्धिना । आज्ञा तस्य पुनः पृथ्व्यामस्खल्यत न केनचित् ।। ४ ॥ स प्रसारितपाणिभ्यो याचकेभ्यो ददद्वसु । तेषामिव स्पर्धया स्वं न पाणिं समकोचयत् ।। ५ ॥ हित्वा स्वस्वपतीन् जातेऽन्धकारे रणरेणुभिः । तमालिलिंगुः सर्वांगं जयलक्ष्म्योऽभिसारिकाः ॥ ६ ॥ शुद्ध मनसि तस्याभूत्सदाचारशिरोमणेः । जिनधर्मः स्थिरः सान्द्रे केशपाशेऽधिवासवत् ॥७॥ श्रीमत्पार्श्वजिनाधीशशासनाम्भोजषट्पदः । सम्यग्दर्शनपुण्यात्मा सोऽणुव्रतधरोऽभवत् ॥८॥ राज्ञां कन्याभिरुढाभिस्तस्योर्वीशशिरोमणेः । अवरोधोऽभवद् भूयान् दिवीव दिविषत्पतेः ॥९॥ १ वजिणा । २ सार्दै ।
||१५७॥