________________
त्रिषष्टिशलाकापुरुषचरिते ।।१५८॥
दशमं पर्व षष्ठमः सर्गः श्रीमहावीरजिनचरितम् ।
पाकशासनतुल्यस्य शासतस्तस्य मेदिनीम् । सूनवो बहवोऽभूवंस्तन्मूर्तय इवापराः ।।१०॥ इतश्चात्रैव भरते वसन्तपुरपत्तने । यथार्थनामा समभूज्जितशत्रुर्महीपतिः ।। ११ ॥ अमरीव भुवं प्राप्ता तस्य चाऽमरसुन्दरी । बभूव पट्टमहिषी गुणरत्नमहाखनिः ।। १२ ।। तयोः सुमंगलो नाम मंगलानां निवासभूः । सुतोऽभूद्रुपकन्दर्पः कलानां निधिरिन्दुवत् ॥ १३ ॥ सेनको नाम सवयास्तस्याभून्मन्त्रिपुत्रकः । अलक्षणानां सर्वेषामुदाहरणमादिमम् ॥ १४ ॥ स पिंगकेशो दावाग्निदीप्तशृंग इवाचलः । घूकवच्चिपिटघ्राणो मार्जार इव पिंगदृक् ।। १५ ॥ उष्ट्रवल्लम्बकण्ठौष्ठ आखुवल्लघुकर्णकः । मुखकुन्दांकुराऽकारबहिर्भूतरदावलिः ।। १६ ।। जलोदरीवोदरिलो हस्वोरुामकोलवत् । मंडलस्थानकेनेव वक्रजंघोऽतिशूर्पपात् ।।१७।। ।। त्रिभिर्विशेषकम् ।। संचचार दुराकारो वराको यत्र यत्र सः । जगाम तत्र तत्रापि हास्यमेकातपत्रताम् ।। १८ ॥ दूरतोऽपि तमायान्तं राजपुत्रः सुमंगलः । जहास विकृताऽऽकारं विलोक्येव विदूषकम् ।। १९ ।। एवं च राजपुत्रेण हस्यमानो दिवानिशम् । वैराग्यं सेनको भेजेऽपमानद्रुमहाफलम् ।। २० ॥ अथ संजातवैराग्यो मन्दभाग्यस्ततः पुरात् । निरगाच्छून्यहृदय उन्मत्त इव सेनकः ॥२१ ।। सुमंगलकुमारोऽपि मन्त्रिपुत्रे निरीयुषि । कालेन कियताप्यात्मराज्ये पित्रा न्यवेश्यत ।। २२ ॥ १°खं कु। २ रंब
श्रेणिक
जन्म।
||१५८॥