________________
त्रिषष्टि
शलाकापुरुषचरिते ।।१५६ ।।
| उदस्तस्य बलेस्तस्य खेऽप्यर्थं जगृहुः सुराः । अर्धस्य पतितस्यार्धं राजा शेषं पुनर्जनाः || १८३ ॥ | अथोत्थाय जगन्नाथ देवच्छन्द उपाविशत् । स्वाम्यंघ्रिपीठे चाऽसीनो गौतमो देशनां व्यधात् ॥ १८४ ॥ द्वितीयस्यां तु पौरुष्यां पूर्णायां गौतमोऽपि हि । देशनाया विरराम वृष्टेरिव नवाम्बुदः ।। १८५ ।।
तत्रातिगम्य कतिचिद्दिवसानि विश्वविश्वोपकारनिरतः प्रतिबोध्य लोकम् । स्वामी सुरासुरनरेश्वरसेव्यमान
पादारविन्दयुगलो विजहार पृथ्व्याम् ।। १८६ ॥
܀ ܀ ܀ ܀ ܀
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते | महाकाव्ये दशमपर्वणि श्रीमहावीरकेवलज्ञानचतुर्विधसंघोत्पत्तिवर्णनो नाम पंचमः सर्गः ।
दशमं पर्व
पञ्चमः
सर्गः
श्रीमहावीरजिन
चरितम् ।
संघस्थापना ।
1194811