________________
दशमं पर्व पञ्चमः
त्रिषष्टिशलाकापुरुषचरिते ॥१५५॥
सर्गः
श्रीमहावीरजिन
चरितम् ।
सत्यप्रवादमात्मप्रवादं कर्मप्रवादयुक् । प्रत्याख्यानं च विद्याप्रवादकल्याणके अपि ।। १७० ॥ प्राणावायाऽभिधानं च क्रियाविशालमित्यपि । लोकबिन्दुसारमथ पूर्वाण्येवं चतुर्दश ।। १७१ ।। सूत्रितानि गणधरैरंगेभ्यः पूर्वमेव यत् । पूर्वाणीत्यभिधीयन्ते तेनैतानि चतुर्दश ।। १७२ ।। एवं रचयतां तेषां सप्तानां गणधारिणाम् । परस्परमजायन्त विभिन्नास्तत्र वाचनाः ।। १७३ ।। अकंपिताऽचलभ्रात्रोः श्रीमेतार्यप्रभासयोः । परस्परमजायन्त सदृक्षा एव वाचनाः ।। १७४ ।। श्रीवीरनाथस्य गणधरेष्वेकादशस्वपि । द्वयोर्द्वयोर्वाचनयोः साम्यादासन् गणा नव ॥ १७५ ॥ सौगन्धिकरत्नचूर्णपूर्णमादाय भाजनम् । उत्थाय स्वामिपार्श्वेऽस्थात् समयज्ञोऽथ वज्रभृत् ।। १७६ ॥ तेऽपीन्द्रभूतिप्रमुखाः परिपाट्यावतस्थिरे । प्रतीच्छवः स्वाम्यनुज्ञां किंचिन्नमितमौलयः ।। १७७ ।। द्रव्यैर्गुणैः पर्यायैश्चाऽनुज्ञातं तीर्थमित्यथ । जल्पन् स्वाम्यक्षिपत् पूर्व चूर्ण गौतममूर्धनि ।। १७८ ।। अप्यन्येषां क्रमात् स्वामी चूर्णं चिक्षेप मूर्धसु । पुष्पवर्ष चूर्णवर्ष प्रीता देवाश्च चक्रिरे ।। १७९ ॥ चिरंजीवी चिरं धर्म द्योतयिष्यत्यसाविति । धुरि कृत्वा सुधर्माणमन्वज्ञासीद्गणं प्रभुः ।। १८० ॥ साध्वीनां संयमोद्योगघटनार्थं तदैव च । प्रवर्तिनीपदे स्वामी स्थापयामास चन्दनाम् ॥ १८१ ।। पूर्णप्रथमपौरुष्यां देशनां व्यसृजत् प्रभुः । राजोपनीतस्तत्र प्राग्द्वारेण प्राविशद्बलिः ॥ १८२ ॥ १ पूर्व प्रा
संघस्थापना।
||१५५॥