________________
| दशमं पर्व | पञ्चमः
त्रिषष्टिशलाकापुरुषचरिते ॥१५२॥
सर्गः
श्रीमहावीरजिन
चरितम् ।
इत्याकर्ण्य सुधर्माऽपि पञ्चशिष्यशतीयुतः । प्रव्रज्यामाददे पार्श्वे स्वामिपादारविन्दयोः ।।१३० ॥ मंडिकोऽपि जगामाऽथ स्वामिनं संशयच्छिदे । स्वाम्यप्युवाच तं बन्धमोक्षयोस्तव संशयः ॥१३१ ॥ तदसद्बन्धमोक्षौ हि प्रसिद्धौ तत्र चात्मनः । मिथ्यात्वादिकृतः कर्मसंबन्धो बन्ध उच्यते ॥ १३२ ।। रज्जुबद्ध इव श्वभ्रतिर्यग्नृसुरभूमिषु । दुःखं तेनानुभवति प्राणी परमदारुणम् ।। १३३ ॥ ज्ञानदर्शनचारित्रप्रमुखैहेतुभिस्तु यः । वियोगः कर्मणां ज्ञेयः स मोक्षोऽनन्तशर्मदः ।। १३४ ।। अप्यनादिमिथःसिद्धयोगानां जीवकर्मणाम् । ज्ञानादिना स्याद्वियोगोऽग्निना स्वर्णाश्मनामिव ।। १३५ ॥ इति स्वामिगिराच्छिन्नसंशयो मंडिकोऽपि हि । सार्धत्रिशत्या शिष्याणां सहितो व्रतमाददे ॥१३६ ।। मौर्यपुत्रोऽपि संदेहच्छिदे स्वामिनमाययौ । स्वाम्यप्यूचे मौर्यपुत्र ! तव देवेषु संशयः ।। १३७ ।। स मिथ्या पश्य नन्वेतान् प्रत्यक्षमपि नाकिनः । अस्मिन् समवसरणे शक्रादीन् स्वयमागतान् ।। १३८ ॥ संगीतकादिवैयग्रयान्मर्त्यगन्धाच्च दुःसहात् । नायान्ति शेषकालेऽमी तदभावो न तावता ।।१३९ ।। अर्हज्जन्माभिषेकादावायान्ति यदमी भुवि । प्रभावः कारणं तत्र गरीयान् श्रीमदर्हताम् ।। १४० ॥ इति स्वामिगिरा बुद्धो मौर्यपुत्रोऽपि तत्क्षणम् । परिवव्राज शिष्याणां साधं सार्धेःशतैस्त्रिभिः ।। १४१ ।। ययावकंपितोऽपीशमीशोऽवोचदकंपित ! न सन्त्यदृश्यमानत्वान्नारका इति ते मतिः ॥१४२ ।। तदसन्नारकाः कामं पारतंत्र्यवशादिह । आगन्तुमक्षमा गन्तुं च त्वादृशा अपि ॥ १४३ ॥
अग्नि
भूत्यादीनां
शंकानिरसनम् ।
||१५२॥