________________
दशमं पर्व
पञ्चमः
त्रिषष्टिशलाकापुरुषचरिते ।।१५३॥
सर्गः श्रीमहावीरजिनचरितम् ।
प्रत्यक्षं नोपलभ्यास्ते युक्तिगम्या भवादृशाम् । प्रत्यक्षा एव ते सन्ति क्षायिकज्ञानिनां पुनः ।। १४४ ।। क्षायिकज्ञानिनोऽप्यत्र नो सन्तीति स्म मा ब्रवीः । मयैव व्यभिचारोऽस्या आशंकायाः परिस्फुटः ।। १४५ ॥ इति श्रुत्वा प्रतिबुद्धोऽकंपितः स्वामिनोऽन्तिके । उपाददे परिव्रज्यां त्रिभिः शिष्यशतैः समम् ।। १४६ ॥ अथाऽऽगादचलभ्राता प्रभुं प्रभुरपि स्फुटम् । ऊचे तवाचलभ्रातः ! सन्देहः पुण्यपापयोः ।। १४७ ॥ मा कृथाः संशयं तत्र यत्फलं पुण्यपापयोः । प्रत्यक्षं दृश्यते लोके तथैव व्यवहारतः ।। १४८ ॥ दीर्घमायुः श्रियो रुपमारोग्यं जन्म सत्कृले । इत्यादि पुण्यस्य फलं विपरीतं तु पाप्मनः ।। १४९ ॥ इत्थं भगवता च्छिन्नसंशयः समुपाददे । प्रव्रज्यामचलभ्राता त्रिभिः शिष्यशतैः सह ।। १५०॥ मेतार्यः स्वामिनमगात् स्वाम्यूचे तव धीरियम् । भवान्तरप्राप्तिरुपः परलोको न विद्यते ।। १५१ ।। भूतसंदोहरूपत्वाज्जीवस्येह चिदात्मनः । परलोकः कथं भूताऽभावे तस्याप्यभावतः ।। १५२ ।। तदसत् खलु जीवस्य भूतेभ्यो हि स्थितिः पृथक् । पिण्डितेष्वपि भूतेषु चेतनानुपलम्भतः ।। १५३ ।। भूतेभ्यश्चेतनाऽप्येवं जीवधर्मतया पृथक् । परलोकगतिस्तत्स्याज्जातिस्मृत्यादितोऽपि च ।। १५४ ॥ इत्थं प्रबुद्धो मेतार्यः समीपे स्वामिपादयोः । शिष्यत्रिशत्या सहितः परिव्रज्यामुपाददे ।। १५५ ।। प्रभुमागात् प्रभासोऽपि तमूचे भगवानपि । निर्वाणमस्ति नो वेति प्रभास ! तव संशयः ॥१५६ ॥ मा संशयिष्ठा निर्वाणं मोक्षः कर्मक्षयः स तु । वेदात् सिद्ध कर्म जीवाऽवस्थावैचित्र्यतोऽपि च ॥ १५७ ।।
अग्निभूत्यादीनां
शंकानिरसनम् ।
॥१५३॥