________________
दशमं पर्व
त्रिषष्टिशलाकापुरुषचरिते ॥१५१॥
पञ्चमः Pा सर्गः
श्रीमहावीरजिनचरितम् ।
इति स्वामिगिराच्छिन्नसंशयो विमुखो भवात् । पर्यव्राजीद्वायुभूतिः शिष्यपञ्चशतीयुतः ।। ११७ ।। व्यक्तोऽप्यचिन्तयद्वयक्तं सर्वज्ञो भगवानयम् । इन्द्रभूत्यादयो येन जिता वेदा इव त्रयः ॥११८ ॥ ममापि संशयं छेत्ता निश्चितं भगवानयम् । ततः शिष्यीभविष्यामि ध्यात्वैवं सोऽप्यगाप्रभुम् ।।११९॥ युग्मम्।। तमप्युवाच भगवान् भो व्यक्त ! तव चेतसि । न हि भूतानि विद्यन्ते पृथ्व्यादीनीति संशयः ॥ १२० ॥ तेषां तु प्रतिपत्तिर्या सा भ्रमाज्जलचन्द्रवत् । सर्वशून्यत्वमेवैवमिति ते दृढ आशयः ॥ १२१ ॥ तन्मिथ्या सर्वशून्यत्वपक्षे भुवनविश्रुताः । स्युः स्वप्नाऽस्वप्नगन्धर्वपुरेतरभिदा न हि ।। १२२ ॥ इत्थं च च्छिन्न संदेहो व्यक्तोऽपि व्यक्तवासनः । परिवव्राज शिष्याणां शतैः पञ्चभिरन्वितः ।। १२३ ॥ उपाध्यायः सुधर्माऽपि संशयच्छेदवाञ्छया । समाययौ महावीरमतुच्छालोकभास्करम् ।। १२४ ॥ तमप्यजल्पद्भगवान् सुधर्मस्तव धीरियम् । यादृगत्र भवे देही तादृक् परभवेऽपि हि ।। १२५ ॥ कार्य हि कारणास्यानुरुपं भवति संसृतौ । न युप्ते कलमबीजे प्ररोहति यवांकुरः ।। १२६ ॥ तन्न युक्तं यद्भवेऽस्मिन् यो मृदुत्वाऽऽर्जवादिभिः । नरः कर्म नरायुष्कं बध्नाति स पुनर्नरः ॥ १२७ ॥ मायादियुक् पशुर्यस्तु स प्रेत्याऽपि पशुः खलु । कर्माधीना समुत्पत्तिस्तन्नानात्वं च जन्मिनाम् ॥ १२८ ॥ सदृशं कारणस्यैव कार्यमित्यप्यसंगतम् । शृंगप्रभृतिकेभ्योऽपि शरादीनां प्ररोहणात् ।। १२९ ।। १ भवान्।
*SHAHARASHARASHTRA
अग्निभूत्यादीनां शंकानिरसनम् ।
।।१५१॥