________________
त्रिषष्टिशलाकापुरुषचारते ॥१५०॥
दशमं पर्व पञ्चमः सर्गः श्रीमहावीरजिनचरितम् ।
तथाहि स्युर्नृपाः केऽपि हस्त्यश्वरथवाहनाः । केचित्तत्र भवे पादचारिणो निरुपानहः ।। १०४ ।। सहसकुक्षिभरयो भवन्त्येके महर्द्धयः । भिक्षया स्वोदरमपि पूरयन्त्यपरे पुनः ।। १०५ ।। देशकालादितुल्यत्वेऽप्येकस्य व्यवहारिणः । भूयिष्ठो जायते लाभो मूलनाशोऽपरस्य तु ।। १०६ ॥ एवंविधानां कार्याणां ज्ञेयं कर्मैव कारणम् । न विना कारणं कार्यवैचित्र्यमुपजायते ।। १०७ ॥ मूर्तानां कर्मणां जीवेनामूर्तेन च संगमः । समीचीनः सोऽपि नूनमाकाशघटयोरिव ।। १०८ ॥ उपघाताऽनुग्रहाश्च नानाविधसुरौषधैः । अमूर्तेऽपि भवन्तीति निरवद्यमदोऽपि हि ।। १०९ ।। एवं च स्वामिना च्छिन्नसंशयस्त्यक्तमत्सरः । अग्निभूतिः प्रवव्राज शिष्यपञ्चशतीयुतः ।। ११० ॥ अस्मिन्नपि प्रव्रजिते वायुभूतिळचिन्तयत् । जितौ मे भ्रातरौ येन सर्वज्ञः खल्वयं ततः ।। १११ ॥ तदेतस्य भगवतोऽभ्यर्हणावन्दनादिभिः । धौतकल्मषकालुष्यः स्यां छिनद्मि च संशयम् ।। ११२ ।। एवं विचिन्त्य सोऽप्यागात् स्वामिनं प्रणनाम च । स्वाम्यप्युवाच जीवः स तद्वपुश्चेति ते भ्रमः ॥११३ ।। प्रत्यक्षाद्यग्रहणेन जीवो भिन्नस्तनोर्न हि । जलबुबुदवत्सोऽङ्गे मूर्च्छतीति तवाशयः ॥११४ ।। मिथ्या तद्देशप्रत्यक्षो जीवः सर्वशरीरिणाम् । तद्गुणानामीहादीनां प्रत्यक्षत्वात्स्वसंविदा ।।११५ ।। देहेन्द्रियातिरिक्तः स इन्द्रियाऽपगमेऽपि यत् । इन्द्रियार्थान् संस्मरति मरणं च प्रपद्यते ॥ ११६ ॥ १ रसौ ।
अग्निभूत्यादीनां शंकानिरसनम् ।
।।१५०॥