________________
त्रिषष्टिशलाका
पुरुषचरिते
1198811
परिग्रहधियं धत्ते धर्मोपकरणेऽपि यः । बालानविदिततत्त्वान् स वञ्चयितुमिच्छति ।। ९० ॥ जलज्वलनवायूर्वी तरुत्रसतया बहून् । जीवांस्त्रातुं कथमलं धर्मोपकरणं विना ॥ ९१ ॥ गृहीतोपकरणोऽपि करणत्रयदूषितः । असंतुष्टः स आत्मानं प्रतारयति केवलम् ॥ ९२ ॥ इन्द्रभूतिर्विभाव्यैवं शिष्याणां पञ्चभिः शतैः । समं जग्राह धर्मोपकरणं त्रिदशार्पितम् ।। ९३ ।। तं च श्रुत्वा प्रव्रजितमग्निभूतिरचिन्तयत् । तेनेन्द्रजालिकेनेन्द्रभूतिर्नूनं प्रतारितः ।। ९४ ।। गत्वा जयाम्यसर्वज्ञमपि सर्वज्ञमानिनम् । आनयामि भ्रातरं स्वं माययैव पराजितम् ।। ९५ ।। सर्वशास्त्ररहस्यज्ञमिन्द्रभूर्ति महामतिम् । कोऽलं जेतुं विना मायां माया जैत्री त्वमायिषु ।। ९६ ॥ स चेन्मे संशयं ज्ञाता छेत्ता च हृदयस्थितम् । तदाऽहमपि तच्छिष्यः सशिष्योऽपीन्द्रभूतिवत् ॥ ९७ ॥ अग्निभूतिर्विमृश्यैवं पञ्चशिष्यशताऽऽवृतः । ययौ समवसरणे तस्थौ चोपजिनेश्वरम् ॥ ९८ ॥ तमालपत्प्रभुर्विप्राग्निभूते ! गोतमान्वय ! । अस्ति वा नास्ति किं कर्मेत्येष ते संशयो हृदि ।। ९९ ।। प्रत्यक्षादिप्रमाणानामगम्यं कर्म मूर्तिमत् । कथंकारं स बध्नीयाज्जीवो मूर्तत्ववर्जितः ।। १०० ।। उपघाताऽनुग्रहाश्च कथं मूर्तेन कर्मणा । जीवस्य स्युरमूर्तस्येत्याशंका हि मुधैव ते ।। १०१ ।। प्रत्यक्षं कर्माऽतिशयज्ञानिनां त्वादृशां पुनः । अनुमानाभिगम्यं तज्जीववैचित्र्यदर्शनात् ।। १०२ ।। कर्मणामेव वैचित्र्याद्भवन्ति च शरीरिणाम् । सुखदुःखादयो भावास्तत्कर्मास्तीति निश्चिनु ॥ १०३ ॥
दशमं पर्व पञ्चमः
सर्गः
श्रीमहावीरजिन-चरितम् ।
अग्नि
भूत्यादीनां
शंकानिरसनम् ।
।।१४९ ।।