________________
त्रिषष्टिशलाका
पुरुषचरिते
दशमं पर्व पञ्चमः सर्गः श्रीमहावीरजिनचरितम् ।
||१४८॥
संशयं हृदयस्थं मे भाषते च छिनत्ति च । यद्यसौ ज्ञानसंपत्त्या तदाऽऽश्चर्यकरः खलु ।। ७६ ।। इत्यन्तः संशयधरं तमूचे परमेश्वरः । अस्ति जीवो न वेत्युच्चैर्विद्यते तव संशयः ।। ७७ ।। अस्त्येव जीवः स पुन यो गौतम ! लक्षणैः । चित्तचैतन्यविज्ञानसंज्ञाप्रभृतिभिः खलु ।। ७८ ।। न जीवोऽवस्थितश्चेत्स्याद्भाजनं पुण्यपापयोः । यागदानादिकं तर्हि किंनिमित्तं तवाप्यहो ! ॥७९ ॥ इति स्वामिवचः श्रुत्वा मिथ्यात्वेन सहैव सः । उज्झाञ्चकार सन्देहं स्वामिनं प्रणनाम च ।। ८० ॥ ऊचे च त्वत्परीक्षार्थ दुर्बुद्धिरहमागमम् । उत्तुंगवृक्षमुधुक्तः प्रमातुमिव वामनः ।। ८१ ।। बोधितोऽस्मि त्वया साधु दुष्टोऽप्येषोऽहमद्य तत् । भवाद्विरक्तं प्रव्रज्यादानेनानुगृहाण माम् ।।८२ ।। आद्यं गणधरं ज्ञात्वा भाविनं तं जगद्गुरुः । स्वयं प्रव्राजयामास पञ्चशिष्यशतीयुतम् ।। ८३ ।। उपनीतं कुबेरेण धर्मोपकरणं ततः । त्यक्तसंगोऽप्याददानो गौतमोऽथेत्यचिन्तयत् ।। ८४ ।। निरवद्यव्रतत्राणे यदेतदुपयुज्यते । वस्त्रपात्रादिकं ग्राह्य धर्मोपकरणं हि तत् ।। ८५ ॥ छद्मस्थैरिह षड्जीवनिकाययतनापरैः । सम्यक् प्राणिदयां कर्तुं शक्येत कथमन्यथा ।। ८६ ।। यच्छुद्धमुद्गमोत्पादैषणाभिर्गुणसंयुतम् । गृहीतं सदहिंसायै तद्धि ग्राह्य विवेकिना ।। ८७ ॥ ज्ञानदर्शनचारित्राऽऽचारशक्तिसमन्वितः । आद्यन्तमध्येष्वमूढसमयार्थं हि साधयेत् ।। ८८ ।। ज्ञानाऽवलोकहीनो यस्त्वभिमानधनः पुमान् । अस्मिन् परिग्रहाऽऽशंकां कुरुते स हि हिंसकः ।। ८९ ।।
इन्द्रभूतेः शंकानिरासः ।
| 11१४८॥