________________
त्रिषष्टि
शलाका
पुरुषचरिते
।।१४७ ।।
1
मंत्रेणास्माभिराहूताः प्रत्यक्षा नन्वमी सुराः । इह यज्ञे समायान्ति प्रभावं पश्यत क्रतोः ।। ६३ । त्यक्त्वा चण्डालवेश्मेव यज्ञवाटं सुरेषु तु । प्रति समवसरणं यात्सु लोकोऽब्रवीदिति ॥ ६४ ॥ उद्याने समवसृतः सर्वज्ञोऽतिशयान्वितः । तं वन्दितुं सुराः यान्ति पौराश्चामी प्रमोदिनः ।। ६५ ।। सर्वज्ञ इत्यक्षराणि श्रुत्वाऽऽक्रोशमिवोच्चकैः । इन्द्रभूतिः प्रकुपितः स्वानेवमवदज्जनान् ॥ ६६ ॥ मां त्यक्त्वा किममी यान्ति पाखण्डिनममुं जनाः । त्यक्त्वा चूतमिवाऽविज्ञाः करीरं मरुमानुषाः ।। ६७ । ममापि पुरतोऽत्रास्ति सर्वज्ञ इति कोऽपि किम् । पञ्चाननस्य न ह्यग्रे भवत्यन्यः पराक्रमी ।। ६८ ।। मनुष्या यद्यमी मूर्खा यान्त्येनं यान्तु तन्ननु । देवाः कथममी यान्ति दम्भः कोऽप्यस्य तन्महान् ॥ ६९ ॥ यादृशो वैष सर्वज्ञो देवा अपि हि तादृशाः । यदि वा यादृशो यक्षो जायते तादृशो बलिः ॥ ७० ॥ अस्य सर्वज्ञतादर्पमसावपहराम्यहम् । देवानां मानवानां च पश्यतामेव संप्रति ॥ ७१ ॥ सोऽहंकारादुदीर्यैवं शिष्यपंचशतीवृतः । ययौ समवसरणे वीरं सुरनरावृतम् ॥ ७२ ॥ तत्रर्द्धिं स्वामिनः प्रेक्ष्य रुपं तेजश्च तादृशम् । किमेतदिति साश्चैर्य इन्द्रभूतिरैवास्थित ॥ ७३ ॥ भो गौतमेन्द्रभूते ! किं तव स्वागतमित्यथ । सुधामधुरया वाचा तं बभाषे जगद्गुरुः ॥ ७४ ॥ गौतमोऽचिन्तयन्मेऽसौ गोत्रं नाम च वेत्ति किम् ? । जगत्प्रसिद्धमथवा को जानाति न मामिह ॥ ७५ ॥
१ मानुषा । २० । ३ °रिवा ।
दशमं पर्व पञ्चमः
सर्गः श्रीमहावीर
जिनचरितम् ।
इन्द्रभूतेः
शंका |
।।१४७ ।।