SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ||१४६॥ | दशमं पर्व पञ्चमः सर्गः श्रीमहावीरजिनचरितम् । तस्येन्द्रभूत्यग्निभूतिवायुभूत्यभिधाः सुताः । पल्यां प्रथिव्यामभवंस्तेऽपि गोत्रेण गोतमाः ।।५०॥ कोल्लाकेऽभूद्धनुर्मित्रो धम्मिल्लच द्विजस्तयोः । पुत्रौ व्यक्तः सुधर्मा च वारुणीभद्रिलाभवौ ।। ५१ ।। धनदेवश्च मौर्यश्च मौर्याऽख्ये सन्निवेशने । द्वावभूतां द्विजन्मानौ मातृष्वनेयकौ मिथः ।। ५२ ॥ पल्यां विजयदेवायां धनदेवस्य नन्दनः । मंडिकोऽभूत्तत्र जाते धनदेवो व्यपद्यत ॥५३ ॥ लोकाचारो ह्यसौ तत्रेत्यभार्यो मौर्यकोऽकरोत् । भार्यां विजयदेवां तां देशाचारो हि न हिये ।। ५४ ॥ क्रमाद्विजयदेवायां मौर्यस्य तनयोऽभवत् । स च लोके मौर्यपुत्र इति नाम्नैव पप्रथे ।। ५५ ।। तथैव मिथिलापुर्या देवनानो द्विजन्मनः । अभूदकंपितो नाम जयन्तीकुक्षिजः सुतः ।। ५६ ।। अभूच्च कोशलापुर्यां वसुनानो द्विजन्मनः । सूनुर्नाम्नाऽचलभ्राता नन्दाकुक्षिसमुद्भवः ।। ५७ ।। वत्सदेशे तुंगिकाऽऽख्ये सन्निवेशे द्विजन्मनः । दत्तस्य सूनुर्मेतार्यो वरुणाकुक्षिभूरभूत् ।।५८ ॥ तथा पुरे राजगृहे बलनामो द्विजन्मनः । प्रभासो नाम पुत्रोऽभूदतिभद्रोदरोद्भवः ।। ५९ ।। एकादशापि तेऽभूवंश्चतुर्वेदाब्धिपारगाः । गौतमाद्या उपाध्यायाः पृथक् शिष्यशतैर्वृताः ।। ६०॥ विप्रः पुर्यामपापायां यष्टुमाढ्योऽथ सोमिलः । आनिनाय श्रद्धया तान् यज्ञकर्मविचक्षणान् ।। ६१ ।। तदा च तत्र समवसृतं वीरं विवन्दिषून् । सुरानापततः प्रेक्ष्य बभाषे गौतमो द्विजान् ।। ६२ ।। १ मिलितापु° । मिथुलापु° । विमला पु° । इन्द्रभूतेः शंका। ॥१४६॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy