________________
त्रिषष्टिशलाकापुरुषचरिते ॥१४५॥
दशमं पर्व पञ्चमः सर्गः श्रीमहावीरजिनचरितम् ।
तिष्ठेद्वायुवेदद्रिकृलेज्जलमपि क्वचित् । तथापि ग्रस्तो रागाद्यैर्नाप्तो भवितुमर्हति ।।३७ ।। इत्यभिष्टुत्य विरते बिडौजसि जगद्गुरुः । सर्वभाषाजुषा वाचा विदधे देशनामिति ।।३८ ।। अहो अपारः संसारः सरस्वानिव दारुणः । कारणं तस्य कर्मैव हन्त बीजं तरोरिव ।। ३९ ।। कर्मणा स्वकृतेनैव विवेकपरिवर्जितः । कूपकार इवाधस्ताद्गतिमाप्तोति देहभृत् ।। ४० ।। अप्यूर्ध्वगतिमाप्नोति निजेनैव हि कर्मणा । प्रासादकारक इव शरीरी विशदाशयः ।। ४१ ।। प्राणातिपातं नो कुर्यात् कर्मबन्धनिबन्धनम् । स्वप्राणवत् परप्राणपरित्राणपरो भवेत् ।। ४२ ।। न मृषा जातु भाषेत किं तु भाषेत सुनृतम् । परपीडां परिहरन्नात्मपीडामिवांगवान् ।। ४३ ॥ अदत्तं नाददीतार्थं बाह्यप्राणोपमं नृणाम् । अर्थ हि हरता तेषां वध एव कृतो भवेत् ।। ४४ ।। मैथुनं न विदध्याच्च बहुजीवोपमर्दकम् । ब्रह्मैव कुर्यात्तत्प्राज्ञः परब्रह्मनिबन्धनम् ।। ४५ ।। परिग्रहं न कुर्याच्च परिग्रहवशेन हि । गौरिवाधिकभारेण विधुरो निपतत्यधः ॥४६ ॥ एतान्प्राणातिपातादीन सूक्ष्मांस्त्यक्तुं न चेत्क्षमाः । त्यजेयुर्बादरांस्तर्हि सूक्ष्मत्यागेऽनुरागिणः ।। ४७ ।। इत्थं च देशनां भर्तुः श्रृण्वन्तोऽवहिता जनाः । तस्थुरानन्दनिस्पन्दा आलेख्यलिखिता इव ।। ४८ ।। इतश्च मगधे देशे गोवरग्रामनामनि । ग्रामे गोतमगोत्रोऽभूद्विसुन्द्रभूतिरिति द्विजः ॥ ४९ ॥ १°ब
देशना।
||१४५॥