________________
त्रिषष्टि
| दशमं पर्व
शलाकापुरुषचरिते
||१४४॥
| पञ्चमः सर्गः श्रीमहावीरजिनचरितम् ।
स्वामिनः प्रतिरूपाणि तन्महिम्नैव नाकिनः । विचक्रिरे भक्तिमन्तस्तिसृष्वन्यासु दिक्ष्वपि ।। २३ ॥ यथाद्वारं प्रविश्याथ यथास्थित्यवतस्थिरे । पश्यन्तः स्वामिवदनं सर्वे सुरनरादयः ।। २४ ॥ नमस्कृत्य जगन्नाथं घुसन्नाथः कृताञ्जलिः । रोमाञ्चितवपुर्भक्त्या स्तोतुमेवं प्रचक्रमे ।। २५ ॥ लावण्यपुण्यवपुषि त्वयि नेत्राऽमृतांजने । माध्यस्थ्यमपि दौःस्थ्याय किं पुनद्वैषविप्लवः ।। २६ ॥ तवापि प्रतिपक्षोऽस्ति सोऽपि कोपादिविप्लुतः । अनया किंवदन्त्याऽपि किं जीवन्ति विवेकिनः ? ॥२७॥ विपक्षस्ते विरक्तश्चेत् स त्वमेवाऽथ रागवान् । न विपक्षो विपक्षः किं खद्योतो द्युतिमालिनः ? ।। २८ ॥ स्पृहयन्ति (ते) त्वद्योगाय यत्तेऽपि लवसत्तमाः । योगमुद्रादरिद्राणां परेषां तत्कथैव का ।। २९ ।। त्वां प्रपद्यामहे नाथ त्वां स्तुमस्त्वामुपास्महे । त्वत्तो हि न परस्त्राता किं ब्रूमः किन्नु कुर्महे ।।३०॥ स्वयं मलीमसाचारैः प्रतारणपरैः परैः । वञ्च्यते जगदप्येतत् कस्य पूत्कुर्महे पुरः ।। ३१ ।। नित्यमुक्ताञ्जगज्जन्मस्थेमक्षयकृतोद्यमान् । वन्ध्यास्तनन्धयप्रायान् को देवांश्चेतनः श्रयेत् ।। ३२ ।। कृतार्था जठरोपस्थदुःस्थितैरपि दैवतैः । भवादृशान्निनुवते ह हा देवास्तिकाः परे ।।३३ ॥ खपुष्पप्रायमुत्प्रेक्ष्य किंचिन्मानं प्रकल्प्य च । संमान्ति देहे गेहे वा न गेहेनर्दिनः परे ॥ ३४ ॥ कामरागस्नेहरागावीषत्करनिवारणौ । दृष्टिरागस्तु पापीयान् दुरुच्छेदः सतामपि ।।३५ ।। प्रसन्नमास्यं मध्यस्थे दृशौ लोकम्पृणं वचः । इति प्रीतिपदे बाढं मूढास्त्वय्यप्युदासते ॥३६॥
देशना।
11१४४॥