________________
त्रिषष्टिशलाकापुरुषचरिते ||१४३॥
| दशमं पर्व | पञ्चमः सर्गः श्रीमहावीरजिनचरितम् ।
सिद्धायिका तथोत्पन्ना सिंहयाना हरिच्छविः । समातुलिंगवल्लक्यौ वामबाहूच बिभ्रती ॥ १२ ॥ पुस्तकाऽभयदौ चोभौ दधाना दक्षिणी भुजौ । अभूतां ते प्रभोर्नित्याऽऽसन्ने शासनदेवते ॥ १३ ॥
॥त्रिभिर्विशेषकम् ॥ उपकाराऽर्हलोकानामभावात्तत्र च प्रभुः । परोपकारैकपरः प्रक्षीणप्रेमबन्धनः ।। १४ ।। तीर्थकृन्नामगोत्राऽऽख्यं कर्म वेद्यं महन्मया । भव्यजन्तुप्रबोधेनानुभाव्यमिति भावयन् ॥ १५ ॥ घुसन्निकायकोटीभिरसंख्याताभिरावृतः । सुरैः संचार्यमाणेषु स्वर्णाब्जेषु दधक्रमौ ॥ १६ ॥ स्फटे मार्गे दिन इव देवोद्योतेन निश्यपि । द्वादशयोजनाऽध्वानां भव्यसत्त्वैरलंकृताम् ।। १७ ॥ गौतमायैः प्रबोधार्ह रिशिष्यसमावृतैः । यज्ञाय मिलितैर्जुष्टामपापामगमत्पुरीम् ।। १८ ॥
॥पञ्चभिः कुलकम् ॥ तस्या अदरे पर्याश्च महासेनवनाभिधे । उद्याने चारुसमवसरणं विबुधा व्यधुः ।। १९ ॥ सञ्जातसर्वातिशयः स्तूयमानः सुरासुरैः । पूर्वद्वारेण समवसरणं प्राविशत्प्रभुः ।।२०।। द्वात्रिंशद्धनुरुत्तुंगं रत्नच्छंदच्छविर्निभम् । ततः प्रदक्षिणीकृत्य चैत्यवृक्षं जगद्गुरुः ॥२१॥ नमस्तीर्थायेत्युदित्वा पालयन्नाहतीं स्थितिम् । सपादपीठे न्यषदत्पूर्वसिंहासने प्रभुः ॥२२ ।। १ स्वमानाद् द्वादशगुणं र । द्वाविंशद्धनु ।२ °चक्रे ।
देशना।
||१४३॥