________________
पञ्चमः सर्गः ।
त्रिषष्टिशलाकापुरुषचरिते ॥१४२॥
दशमं पर्व पञ्चमः सर्गः श्रीमहावीरजिनचरितम् ।
जगन्नाथोऽथ तत्र पालिकोत्तररोधसि । श्यामाकनानो गृहिणः क्षेत्रे शालतरोस्तले ॥१॥ अव्यक्तचैत्यस्यासन्ने षष्ठेनोत्कटिकासनी । मुहूर्ते विजये स्वामी तस्थावातापनापरः ।।२।। ।। युग्मम्॥ शुक्लध्यानान्तरस्थस्य क्षपकश्रेणिवर्तिनः । स्वामिनो घातिकर्माणि तुत्रुटुर्जीर्णरज्जुवत् ॥ ३ ॥ वैशाखश्वेतदशम्यां चन्द्रे हस्तोत्तरागते । यामे चतुर्थेऽह्नो भर्तुरुदपद्यत केवलम् ॥ ४ ॥ विज्ञायाऽऽसनकंपेन केवलज्ञानमीशितुः । इन्द्राः सह सुरैस्तत्र समाजग्मुः प्रमोदिनः ।। ५ ॥ केऽप्युत्पेतुः केऽपि पेतुर्ननृतुः केऽपि केऽपि च । जहसुः केऽपि च जगुडूच्चक्रुः केऽपि सिंहवत् ।। ६ ।। केऽप्यश्ववदहेषन्त बबूंहुः केऽपि हस्तिवत् । रथवत् केऽपि चीच्चक्रुः पूच्चक्रुः केऽपि नागवत् ॥७॥ स्वामिनः केवलोत्पत्त्या हृष्टात्मानोऽपरेऽपि हि । चतुर्विधा दिविषदो विविधं विचिचेष्टिरे ॥ ८ ॥ प्रतिवप्रं चतुरिं वप्रत्रितयभूषितम् । चक्रुः समवसरणं यथाविधि दिवौकसः ॥९॥ न सर्वविरतेरर्हः कोऽप्योति विदन्नपि । कल्प इत्यकरोत्तत्र निषण्णो देशनां विभुः ॥१०॥ | तत्तीर्थजन्मा मातंगो यक्षः करिरथोऽसितः । बीजपूरं भुजे वामे दक्षिणे नकुलं दधत् ॥ ११ ॥
RASHARASIRSINHASHRSHASHRESS
प्रभोः केवलोत्पत्तिः ।
||१४२॥