________________
त्रिषष्टिशलाकापुरुषचरिते ||१४१॥
चतुर्मासक्षपणानि नव द्विमासिकानि षट् । मासिकानि द्वादशार्धमासिकानि द्विसप्ततिः ।। ६५२ ।। एकं पाण्मासिकं द्वे त्रिमासे द्वे सार्धमासिके । सार्धद्विमासिके द्वे च भद्रादिप्रतिमात्रयम् ।। ६५३ ।। महानगर्यां कौशाम्ब्यामभिग्रहसमन्वितम् । अहोभिः पंचभियूँनमेकं पाण्मासिकं तथा ।। ६५४ ।। प्रतिमाश्चैकरात्रिक्यो द्वादशाष्टमभक्ततः । चरमायां विभावाँ कायोत्सर्गसमन्विताः ।। ६५५ ॥ एकोनत्रिंशदधिके द्वे च षष्ठशते प्रभोः । नित्यभक्तं चतुर्थं च बभूव न कदाचन ।। ६५६ ।। प्रभोरेकोनपंचाशं पारणाहशतत्रयम् । व्रताहाच्चेत्यभूत् सार्धा द्वादशाब्दी सपक्षिका ।। ६५७ ॥
कृत्वा तपो जलविहीनमशेषमित्थं छद्मस्थ एव विहरन् विजितोपसर्गः ।
स्वामी जगाम ऋतुपालिकया महत्या नद्या सनाथमथ जृम्भकसन्निवेशम् ।। ६५८ ॥
दशमं पर्व चतुर्थः सर्गः श्रीमहावीरजिनचरितम् ।
प्रभोः तपोगणना।
||१४१॥
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमपर्वणि श्रीमहावीरद्वितीयसाग्रषड्वार्षिकछद्मस्थविहारवर्णनो
नाम चतुर्थः सर्गः ।