________________
दशमं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ||१३८॥
सर्गः श्रीमहावीरजिनचरितम् ।
स्वातिदत्तद्विजोऽप्यूचे ब्रूहि सूक्ष्मोऽपि को नु सः ? | व्याजहार प्रभुरपि न गृह्येत य इन्द्रियैः ।। ६१२ ॥ प्रश्नेनानेन विप्रः स ज्ञात्वा तत्त्वविदं प्रभुम् । भक्त्याऽऽनर्च प्रभुणापि स भव्य इति बोधितः ।।६१३ ।। चतुर्मास्यत्यये स्वामी जृम्भकग्राममाययौ । तत्र नाट्यविधि शक्रो दर्शयित्वाऽब्रवीदिति ॥६१४ ।। जगद्गुरो ! कतिपयैरद्य प्रभृति वासरैः । उत्पत्स्यतेऽत्रभवतः केवलज्ञानमुज्ज्वलम् ।। ६१५ ।। इत्युदित्वा सुनासीरो वीरं नत्वा ययौ दिवम् । श्रीवीरोऽप्यगमद् ग्रामे मेंढकग्रामनामनि ॥६१६ ॥ चमरेन्द्रस्तत्र चैत्ये भगवन्तमवन्दत । पृष्ट्वा सुखविहारं च जगाम भवनं निजम् ।। ६१७ ॥ ग्रामं षण्मानिनामानं जगाम भगवानपि । बहिश्च कायोत्सर्गेण तस्थौ ध्यानपरायणः ।। ६१८ ।। वेद्यं कर्म तदोदीर्णं प्रभोर्विष्णुभवाऽर्जितम् । शय्यापालश्रवःक्षिप्ततप्तत्रपुनिबन्धनम् ।। ६१९ ।। शय्यापालस्य जीवोऽपि गोपालस्तत्र सोऽभवत् । स्वाम्यन्तिके वृषान्मुक्त्वा गोदोहादिकृते ययौ ।। ६२० ॥ चरन्तः स्वेच्छया ते च प्राविशन्नटवीं वृषाः । क्षणात्सोऽप्याययौ गोपोऽपश्यन्नुक्ष्णोऽवदत्प्रभुम् ।। ६२१ ॥ देवार्य ! क्व ममोक्षाणः । किं न ब्रूषे मुनिब्रुव! ।न श्रुणोषि वचः किं वा कर्णरन्ध्रे वृथैव तत् ॥ २२ ॥ अवादिनि प्रभावेवमत्यन्तकुपितोऽथ सः । अक्षिपत्काशशलाके स्वामिनः कर्णरन्ध्रयोः ।। ६२३ ॥ शलाके ताडिते तेन तथा ते मिलिते मिथः । अखंडैकशलाकत्वं बिभरांचक्रतुर्यथा ।। ६२४ ।।
कर्णयोः कीलकक्षेपणम् ।
||१३८॥