________________
दशमं पर्व
चतुर्थः
त्रिषष्टिशलाकापुरुषचरिते ॥१३९॥
सर्गः श्रीमहावीरजिनचरितम् ।
मा कृक्षत कीलकावेतौ कोऽपीति स्वधिया कुधीः । तत्कीलकबहिर्भागं छित्त्वा गोपालको ययौ ॥६२५ ।। प्रणष्टमायामिथ्यादिशल्योऽपि श्रुतिशल्यभाग् । अकम्पितः शुभध्यानादपापां मध्यमां ययौ ॥ २६ ।। पारणार्थं प्रभुस्तत्र सिद्धार्थवणिजो गृहे । जगाम भगवांस्तेन भक्त्या च प्रतिलाभितः ।। ६२७ ॥ पूर्वायातस्तत्र वैद्यः सिद्धार्थस्य सुहृत्प्रियः । खरकाख्यः प्रभुं प्रेक्ष्य सूक्ष्मधीरब्रवीदिदम् ।। ६२८ ॥ अहो भगवतो मूर्तिः संपूर्णा सर्वलक्षणैः । परं शल्यवती चेयं म्लानत्वेनोपलक्ष्यते ।। ६२९ ।। सिद्धार्थः संभ्रमादूचे यद्येवं तन्निरुपय । सम्यग्भगवतो देहे क्व शल्यं हन्त तिष्ठति ? ॥ ६३० ॥ वैद्योऽपि निपुणं पश्यन्नखिलं स्वामिनो वपुः । ददर्श कर्णयोः कीलौ सिद्धार्थस्याप्यदर्शयत् ।। ६३१ ।। सिद्धार्थोऽथावदत् केनाप्यपवादादभीरुणा । नरकादप्यभीतेन चक्रेऽदः कर्म दारुणम् ।। ६३२ ।। कृतं वा तस्य पापस्य कथयाऽप्यनया सखे ! । नाथस्य शल्योद्धाराय प्रयतस्व महामते ! ।। ६३३ ॥ स्वामिनः कर्णयोः शल्ये पीडा तु महती मम । विलम्बं न सहेऽत्रार्थे सर्वस्वमपि यातु मे ।। ६३४ ॥ कर्णाभ्यां विश्वनाथस्योदधतयोरिह शल्ययोः । मन्ये भवमहाम्भोधेरावामेव समुद्धृतौ ।। ६३५ ॥ वैद्योऽप्युवाच नाथोऽयं विश्वत्राणक्षयक्षमः । कर्मक्षयायोपैक्षिष्ट तं नाऽशक्त्याऽपकारिणम् ।। ६३६ ।। कथं चिकित्सनीयोऽयं निरपेक्षो वपुष्यपि । यः कर्मनिर्जरालुब्धो वेदनां साधु मन्यते ।। ६३७॥ १°लस्य ब।
कीलककर्षणम् ।
||१३९॥